SearchBrowseAboutContactDonate
Page Preview
Page 1037
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१६८ Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता | ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये । दुर्बलस्य विशेषेण नरस्यान्ताय जायते ॥ १६ ॥ पाण्डुरश्च कृशोऽत्यर्थं तृष्णयातिपरिप्लुतः । डम्बरी कुपितोच्छ्रासः प्रत्याख्येयो विजानता ॥ १७ ॥ हनुमन्याग्रहस्तृष्णा बलहासोऽतिमात्रया । प्राणाश्चोरसि वर्त्तन्ते यस्य तं परिवर्जयेत् ॥ १८ ॥ व्यायच्छते ताम्यति च शर्म किञ्चिन्न बिन्दति । नीमांसबलाहारो मुमूषुरचिरान्नरः ॥ १६ ॥ | कतमानिशरीरीयमिन्द्रियम् गङ्गाधरः - ज्वरेत्यादि । यस्य शोफान्ते पूर्व्वं शोथो भूला निवृत्तो ज्वरातिसारौ च युगपज्जायेते तस्य नरस्यान्ताय नाशाय व्योध्यौ । स यदि दुर्व्वलस्तदा किमत्र वचः । नरस्य तयोः क्षये पूर्वं ज्वरातिसारौ द्वावेव भूला निवृत्तौ श्वयथुश्चान्ताय जायते भवति, दुर्व्वलस्य तस्य विशेषेणाचिरादेवान्ताय जायते इत्यर्थः ॥ १६ ॥ गङ्गाधरः - पाण्डुर इत्यादि । पाण्डुरः पाण्डुरोगवान् योऽत्यर्थं कृशस्तृष्णया चात्यर्थं परिप्लुतः । डम्बरी आडम्बरवान् स्तब्धाक्षः सन्नवलोकयति संरम्भेण वा पश्यति । कुपितोच्छ्रासः श्वास रोगवान् प्रत्याख्येयस्त्याज्यः ॥ १७ ॥ For Private and Personal Use Only गङ्गाधरः - हनुमन्येत्यादि । यस्य हनुग्रहो मन्याग्रहस्तृष्णा तथातिमात्रया बलहासः प्राणा उरसि वर्त्तन्ते इत्येवं लक्ष्यते, तेन प्राणनिर्गमोन्मुखखमाख्यायते, तं परिवर्जयेत् ॥ १८ ॥ गङ्गाधरः- व्यायच्छते इत्यादि । यो व्यायच्छते व्यायामं कुरुते तेन व्यायामेन ताम्यति ग्लायति न किञ्चित् शम् सुखं बिन्दति क्षीणमांसादिश्च भवति, स नरोऽचिरान्मुमृषु भवति ॥ १९ ॥ एव । डम्बरी स्तब्धाभावलोकी, किंवा डम्बरी संरम्भवान् । कुपित उच्छासो यस्य स कुपितोच्छ्रासः ॥ ११–१७ ॥ चक्रपाणिः - प्राणाश्चोरसि वर्त्तन्त इति वायव उरसि प्रकुपिता वहन्ति । यदि तु जीवितं प्राणा इहोच्यते, तदा तस्योरसि वर्त्तन्ते मृत एव पुरुषो भवति । ततश्च तस्मिन् काले रिष्टेनासाध्यतां ज्ञात्वा रोगिपरित्यागे वैद्यस्याप्रसिद्धिर्भवत्येवेति कृत्वा प्राणा वायव इहोच्यन्ते इति ब्र ुवते । वयन्तु ब्रूमः सद्योमरणीयारिष्टवदेतत् प्रत्यासन्नमृत्युगमकमेव भविष्यतीति ॥ १८ ॥
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy