SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः इन्द्रियस्थानम् । २१६५ बलञ्च हीयते शीघ्र तृष्णा चातिप्रवर्द्धते । जायते हृदि शूलञ्च तं भिषक् परिवर्जयेत् ॥ ३॥ हिका गम्भीरजा यस्य शोणितञ्चातिसार्यते। न तस्मा औषधं दद्यात् स्मरन्नात्रेयशासनम् ॥ ४॥ आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम् । व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम् ॥ ५॥ आनाहश्चातिसारश्च कर्षितं यमुभौ भृशम् । विशतो विजहत्येनं प्राणा नातिचिरान्नरम् ॥ ६॥ स्थितमपि न जीयंति, बलश्च हीयते, शीघ्र तृष्णा चातिप्रवर्द्धते, हृदि च शूलं जायते, तं नरं भिषक् परिवर्जयेत् ॥३॥ गङ्गाधरः-हिक्के त्यादि। गम्भीरजा नाभिप्रत्ता गम्भीरा नाम हिक्का यस्य तस्यैव शोणितातिसारश्चेत् ॥४॥ गङ्गाधरः-आनाह इत्यादि। आनाहो विड़ विबन्धव्याधिः स्वनामाख्यातस्तत्रातिसारश्चेत् तदा एतौ द्वौ मिथो विरुद्धौ यं दुर्बलं व्याधितं नरं प्रविशतस्तस्य दुर्लभं जीवितं स्यात्, न तु प्रबलस्य नापि स्वस्थस्य ॥५॥ गङ्गाधरः-एवमानाहश्चेत्यादि व्याख्येयम्। कर्षितं व्याधिभिर्वा धनबान्धवक्षयोपवासादितो वा, इति पूर्वस्माद्भदः। नातिचिरादिति शीघ्रमित्यर्थः॥६॥ अरिष्टेन समं मरणसूचकतया साधादरिष्टानामपि व्याधीनामभिधानमिह व्रते। यदि एत एवासाध्यव्याधयो मरणपूर्वरूपतया रिष्टरूपा एव भवन्ति, तथापि न कदाचित् क्षतिः । तेनारिष्टाधिकारादरिष्टत्वमेव एतदध्यायवाच्यानामपि व्याधीनामिच्छामः ॥ १-३॥ चक्रपाणिः-गम्भीरजा इनि गभ्भीरनाभ्यादिदेशजा न तु गम्भीरा, तस्याः स्वरूपासाध्यत्वेनोक्तत्वात् । 'शोणितञ्चातिसार्यते' इति विशेषणमनर्थकं स्यात्। व्याधितमित्यनेन हि रक्तातिसारारिष्टव्याधिगृहीतमिति दर्शयति । आनाहातिसारयो रोगत्वेनापि 'रोग'विशेषणं विशेषण For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy