SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८८ चरक-संहिता। पूर्व रूपीयमिन्द्रियम् भूमौ पांशूपधानायां वल्मीके वाथ भस्मनि। श्मशानायतने श्वन स्वप्ने यः प्रपतत्यपि ॥ कलुषेऽम्भसि पङ्के वा कूपे वा तमसावृते। . स्वप्ने मजति शीघ्रण स्रोतसा नीयते च यः॥ स्नेहपानं तथाभ्यङ्गः प्रच्छईनविरेचने। हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ ॥ उपानदयुगनाशश्च प्रपातः पदचर्मणोः । हर्षः स्वप्ने प्रकुपितैः पितृभिश्चापि भर्त्सनम् ॥ चन्द्रतारार्कनक्षत्र-दीपदैवतचक्षषाम् । पतनञ्च प्रणाशो वा स्वप्ने भेदो नगस्य वा ॥ रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम् । गुहान्धकारसंबाधं स्वप्ने यः प्रविशत्यपि ॥ रक्तमाली हसन्नुच्चैर्दिवासा दक्षिणां दिशम् । दारुणामटवों स्वप्ने कपियुक्तः प्रयाति वा ॥ गच्छन् सन् प्रपतति, यः स्वप्ने कलुषेऽम्भसि पड्के वा तमसाते कूपे वा मज्जति, यश्च शीघ्रण वेगवता स्रोतसा नीयते, यस्य स्वप्ने स्नेहानां घृतादीनां पान तथा स्नेहाभ्यङ्गः, एवं प्रच्छईनं विरेचनश्च, यस्य खप्ने हिरण्यस्य कपकस्य लाभा, स्वप्ने च कलहः एवं बन्धो वा पराजयो वा, एवमुपानदयुगस्य चर्मपादुकाद्वयस्य नाशः, स्वप्ने तथा पादयोश्चर्मणोर्द्धयोः प्रपातः, खप्ने हर्षः, एवं प्रकुपितैः पितृभिर्भत्सनम्, तथा स्वप्ने चन्द्रादीनां प्रपातः गाशो वा, नगस्य वृक्षस्य भेदो भङ्गः स्वप्ने, यः स्वप्ने रक्तपुष्पादिक प्रविशा - गुहान्धकाररूपसम्यग्बाधाकर देशं यः स्वप्ने प्रविशति, यो रक्तमाली इति संयुक्तो भवति। किंवा प्रमुह्यतीति वा पाठः, तत्र प्रमुह्यतीति वंशादिसङ्कटे लग्नः सन् न निर्गममार्गमासादयति। प्रपतस्यपीति भूमावित्यादिना योज्यम्। पांशूपधानायामिति धूलि. संयुक्तायाम् । किंवा भूमावित्यादि प्रविशतीत्यनेन योज्यम् । उपानत् उपानघ्री। रक्तपुष्पमिति बनविशेषणम् । गुहान्धकारसंबाधमिति गुहान्धकाररूपं कष्टकारकम् । दिगवासा नग्नः सन् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy