SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८४ चरक-संहिता। पूर्वरूपीयमिन्द्रियम्। लता कण्टकिनी यस्य दारुणा हृदि जायते। स्व-ने गुल्मस्तमन्ताय क्रूगे विशति मानवम् ॥ १२॥ कायेऽल मरि संस्पृष्टं सुभृशं यस्य दीर्यते। क्षतानि च न रोहन्ति कुष्ठमृत्युहिनस्ति तम् ॥ १३॥ नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमर्चिषम् । पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैमरिष्यतः॥ १४ ॥ नातानुलिप्तगात्रेऽपि यस्मिन् गृ नन्ति मक्षिकाः। स प्रमेहेण संस्पशं प्राप्य तेनैव हन्यते ॥ १५ ॥ नाशकः स्यादित्यर्थः। न चेदं स्वमतः पूर्वरूपम्। कश्चित् प्रकरणात् स्वप्ने एवं दर्शनं व्याचष्टे साध्यगुल्मपूर्वरूपमिति, तन्न ॥ ११ ॥ गङ्गाधरः--लतेत्यादि। यस्य स्वप्न हृदि कण्टकिनी कण्टकवती दारुणा लता जायते, तं मानवमन्ताय नाशाय करो गुल्मो विशति । एतत्पूर्वरूपको गुल्मोऽसाध्यः॥१२॥ गङ्गाधरः-काये इत्यादि। यस्य कायेऽल्पमपि संस्पृष्टं सुभृशं दीय्येते क्षतानि च न तस्य रोहन्ति, तं पुरुषं मृत्युः कुष्ठ विभिहिनस्ति । एतत्पूवेरूपाणि कुष्ठान्यसाध्यानि। नंदं स्वमतोऽरिष्टं पूर्वरूपम् ॥१३॥ गङ्गाधरः-स्वमत आह-ननस्येत्यादि। कुष्ठरोगेभविष्यद्भिर्मरिष्यतः पुरुषस्य, स्वप्ने नग्नस्य दिगम्बरस्य आज्यावसिक्तस्य घृतम्रक्षितसङ्गिस्य अनर्चिषम् अप्रज्वलितमग्निं निर्वाणाग्निं वा जुहतो होमं कुर्वत उरसि पक्षसि पद्मानि जायन्ते इति। यो नरः स्वप्ने नग्नो भूखा घृतं म्रक्षयित्वा निर्वाणाग्नौ होमं करोति पद्मानि च तस्य वक्षसि जायन्ते इति पश्यति तस्य कुष्ठरोगेण मरणं भविष्यतीति विद्यादित्यर्थः ॥१४॥ गङ्गाधरः - स्नातेत्यादि। यस्मिन् पुरुष मक्षिका गृनन्ति स्नातानुलिप्त गात्रेऽपि अनुलेपतिक्तत्वेन न तं मुश्चन्ति गृधन्त्येव लुभ्यन्त्येव, स प्रमेहेण संस्पर्श प्राप्य प्रमेहं प्राप्य तेनैव प्रमेहेण हन्यते। एतत्पूर्वरूपकप्रमेहोऽसाध्यः ॥१५॥ संस्पृष्टमिति शस्तृणादिसंस्पृष्टम् । यद्यपि “स्नातानुलिप्तगात्रे" इत्यादि 'स्नातानुलिप्तस्य' इत्यादिनोक्तम् तथापीह प्रमेहेण मरणोपदर्शनार्थं पुनरुच्यते। तत्र च यदा प्रमेहपूर्वरूपान्तराणि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy