SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१७४ चरक-सहिता। इन्द्रियानीकमिन्द्रियम् जले सुविमले जालमजालावतते नरः।। स्थिर गच्छति वा दृष्टा जीवितात् परिमुच्यते ॥६॥ जाग्रत् पश्यति यः प्रतान् रक्षांसि विविधानि च । अन्यद्वा यदभुतं किञ्चिज्जीवितात् परिमुच्यते ॥७॥ योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम् । कृष्णं वा यदि वा शुक्ल सोऽग्नौ जति सप्तमीम् ॥ ८ ॥ प्रदीप्तमिव लोकश्च यो वा प्लुतमिवाम्भसा। भूमिमष्टापदाकारां रेखाभिर्यश्च पश्यति । न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम्। ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् ॥ इति ॥५॥ गङ्गाधरः-जले इति। स्थिरे गच्छति चपले वा सुविमलेऽजालावतते जाले रनवतते जले जालं दृष्ट्वा जीवितात् परिमुच्यते म्रियते इत्यर्थः ॥६॥ गङ्गाधरः-जाग्रदित्यादि। यः स्वस्थ आतुरो वा जाग्रत् सन् प्रेतान मृतान् पश्यति स जीवितात् परिमुच्यते। यो वा जाग्रत् सन् विविधानि रक्षांसि पश्यति स जीवितात् परिमुच्यते। अन्यद्वापीदृशमद्भुतं किश्चित् यो जाग्रत् सन् पश्यति स म्रियते। उक्तञ्च सुश्रुते-ज्योत्स्नादशौंष्णतोयेषु छायां यश्च न पश्यति। पश्यत्येकाहीनां वा विकृतां वान्यसत्त्वजाम् । श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् । पिशाचोरगनागानां भूतानां विकृतामपि। यो वा मयूरकण्ठाभ विधृमं वह्निमीक्षते। आतुरस्य भवेन्मृत्युः वस्थो व्याधिमवाप्नुयात् ॥ इति ॥ ७॥ गङ्गाधरः-योऽग्निमित्यादि। प्रकृतिवणेस्थं न गन्धकादिसम्भवत्वेन नीलं, वह्नि य आतुरो नीलं, निष्प्रभमग्नेर्या प्रभा प्रसिद्धा तया हीनं पश्यति, स सप्तमी रात्रिम् अग्नौ व्रजति, सप्तमरात्रे म्रियते। एवं य आतुरोऽग्निं कृष्णं निष्प्रभं पश्यति, सोऽपि सप्तमरात्रे म्रियते। एवं य आतुरोऽग्निं शुक्लं धवलं निष्प्रभ पश्यति सोऽपि सप्तमरात्रे म्रियते ॥ ८ ॥ चक्रपाणि:-स्थित इति स्थिरे। गच्छति वहमाने। येषु चेह रिष्टेषु मरणकालनियमो नोक्तस्तत्र संवत्सरमवधिर्भवति। ततः परेण हि रिप्टे मरणानभिधानात् ॥ ६ ॥ .... चक्रपाणि:--प्रेतानित्यादिबहुवचनान्नैकग्रेतादिदर्शनं रिष्टमिति भावः। प्रकृतिवर्णस्थमिति • सोऽग्नौ इत्यत्र निशामिति क्वचित् पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy