SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ये अध्यायः । इन्द्रियस्थानम् । २१६६ वा स्यात्, परासुरयं पुरुषो नचिरात् कालं मरिष्यतीति विद्यात् ॥ ४॥ तस्य चेत् परिमृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षणगुदवृषणमेढ़नाभ्यंसस्तनमणिक-पशुकाहनुनासिकाकर्णातिव्र - शङ्खार्दानि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्यः स्कन्नानि स्युः, परासुरयं पुरुषो नचिरात् कालं मरिष्यतीति विद्यात् ॥ ५॥ तथास्योच्छासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीश्च लक्षयेत् । तस्य चेदुच्छासोऽतिदी? हस्खो वा स्यात्, परासुरिति विद्यात् । तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयाता, परासुरिति विद्यात् । तस्य चेद दन्ताः प्रतिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात्। तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः, परासुरिति विद्यात्। तस्य चेञ्चक्षुषी प्रकृतिहीने विकृतिशोणिताभ्यां क्षीणं स्यात् । परासुर्गतप्राणः पराशब्दस्य गतार्थखात् । नचिरात् कालमचिरात् कालम् ॥४॥ गङ्गाधरः-अथ तस्यातुरस्य पृथक्वेन एकैकशः परिमृश्यमानानि गुल्फादीनि स्थानेभ्यश्च्युतानि सन्ति स्कन्नानि गतिमन्ति शुष्काणि स्युस्तदायं पुरुषः परासुर्नचिरात् कालं मरिष्यतीति विद्यात् ॥५॥ __ गङ्गाधरः-तथेत्यादि। लक्षयेत् परिमृशेत्। कथमित्यत आहतस्येत्यादि। श्वासपरिमर्शनम्। ततस्तस्येत्यादि। परिमृश्यमाने पाणिना स्पृश्यमाने यदि न स्पन्देयातां तदायं परासुरिति विद्यात् । तस्य चेदित्यादि। पतिकीर्णा मललिप्ताः, श्वेताः श्वेतवर्णाः, जातशर्करा दन्तान्तर्जातशर्करा दृढ़रूपाः । तस्य चेदित्यादिना पक्ष्मणां परीक्षा । जटाबद्धानि त्रिचतुरादिपक्ष्माणि मिलिखा जटाकाराणि । तस्य चेदित्यादि । चक्षुःपरीक्षा । प्रकृतिहीने प्रकृत्याः चक्रपाणि:--पृष्ठेपिका पृष्ठवंशः। पृथक्त नेति एकत्वेन। मणिकं करबाहुसन्धिः। मन्ये गलपाश्र्वगते धमन्यौ। उच्छासदैर्घ्यहासौ नासाग्रदत्तकरस्पर्शाइपलभ्येते। परिकीर्णा इति मललिताः। श्वेतत्वं चक्षुर्ग्राह्यमपि स्पर्शापरीक्षणीयं दन्तधर्मप्रस्तावादुच्यते। चक्षुषी २७० For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy