________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६२
चरक-संहिता। (पुष्पितकमिन्द्रियम् ज्ञानसंवर्द्धनार्थन्तु लिङ्गमरणपूर्वजः । पुष्पितानुपदेच्यामो नरान् बहुविधान् बहून् ७ ॥ नानापुष्पोपमो गन्धो यस्य भाति दिवानिशम् ।
पुष्पितस्य वनस्येव नानाद्रुमलतावतः॥ 'तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः ।
स ना संवत्सराद देहं जहातीति विनिश्चयः ॥ ४॥ भवति। तस्मात् ध्रुवन्वरिष्टे मरणं न तु ब्राह्मणादिभिर्निवाय्यमिति कश्चिदत्र व्याचष्टे तन्न मुश्रुतविरोधात् ॥३॥
गङ्गाधरः-ज्ञानेत्यादि । शानमायुषः प्रमाणावशेषस्य ज्ञानसंवर्द्धनार्थ मरण. पूर्वजैमरणात् पूर्व जायन्ते ये तैः लिङ्गैः पुष्पितान् नरान् पुरुषान् बहून् बहुविधानुपदेक्ष्यामः इत्यर्थः। नानेत्यादि। यस्य पुरुषस्य दिवानिशमर्थात् सर्वदेवाविच्छेदेन नानापुष्पोपमो गन्धः शरीरे भाति प्रकाशते तं नरं मरणलक्षणैः पुष्पितं धीरा आहुः, यथा नानाद्रुमलतावतः पुष्पितस्य वनस्य नानापुष्पोद्भवो गन्धो भाति। एतावता तद्वनस्य नाशवत् नाश इति न ख्यापितं, किन्तु नाशे पुष्पवद्गन्धांशे इयमुपमा। ननु कियदिवसान्मरणं स्यादित्यत आह.---स नेत्यादि। यो नानापुष्पैर्गन्धतस्तुल्यगन्धो भाति स ना संवत्सरात संवत्सरसमाप्तिं प्राप्य देहं जहातीति निश्चयः ॥४॥ रिष्टज्ञानं प्रज्ञापराधजम् । तथा रिष्टमपि सूक्ष्मरूपतया मारके व्याधावसम्बन्धं भवति, एतदपि प्रज्ञापराधजं मिध्याज्ञानम् । तेन रिष्टे यत्र सत्यपि मरणं न भवतीति च ज्ञानं भ्रान्तम्, तथा रिष्टं विनापि क्वचित् मरणं भवतीति ज्ञानं भ्रान्तम्, ततश्च सिद्धोऽव्यभिचारो मरणरिष्टयोरिति वाक्यार्थः ॥॥
चक्रपाणिः-ज्ञायते मरणमनेनेति ज्ञानं रिष्टम्, तस्य सम्बोधनं ज्ञानसम्बोधनम् । मरण. पूर्वकैरिति मरणपूर्वभाविभिः। पुष्पिता यथा वृक्षादयो गन्धवन्तो भवन्ति, तथा रिष्टगन्धप्रयुक्ता ये भवन्ति, ते पुष्पिताः, तान् पुष्पितान् । बहुविधैर्लिङ्गबहून् पुष्पितानिति योजना। वनस्येत्युक्तेऽपि यन्नानाद्रुमलतावत इति करोति, तेन भिन्नजातीयं वनं ग्राहयति । वनं हि सजातीयवृक्षाणामपि स्यात्, यथा-- चम्पकवनमशोकवनमित्यादि। नानात्वञ्च पुष्पाणामेकजातीयानामपि कलिकाद्यवस्थाभेदादपि स्यात्, तस्मात् साधु विशेषणम् 'नानाद्रुमलतावतः' इति । मरणलक्षणैर्यथोक्तैर्गन्धस्तं पुष्पितकमाहुरित्यादि योज्यम् । संवत्सरादिति संवत्सराभ्यन्तरे ॥४॥ - "ज्ञानसम्बोधनार्थन्तु लिङ्गैर्मरणपूर्वकै । बहुबिधैर्बहून्” इति चक्रसम्मतः पाठः।
For Private and Personal Use Only