________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
सूत्रस्थानम्। रसवीयविषाकानां सामान्यं यत्र लक्ष्यते । विशेषः कर्मणाञ्चैव प्रभावस्तस्य स स्मृतः ॥ कटुकः कटुकः पाके वीणिश्चित्रको मतः ।
तद दन्ती प्रभावात् तु विरचयति मानवम् ॥ उपलभ्यते। न तु सर्व वीर्य । तर्हि विपाकोऽपि वीर्य निपाते द्रव्याणां नोपलभ्यते। कथमुपलभ्यते ? तदाह---विपाकः कर्म निष्ठयेति । द्रव्याणां भुक्तानां यावन्ति कर्माणि तावतां कर्मणां निष्ठया परिसमाप्तमा विषाक उपलभ्यते। तर्हि रसविणाकयो:व्ययोरुपलब्धिकारणमुक्त्वा शेषं यावद्वीर्य संज्ञ तदुपलब्धिमाह वीर्य यावदित्यादि। द्रव्याणां रसनायां निपातात् प्रभृति शरीरे धीवासाद यावदुपलभ्यते । कदाचित् कस्यचित् रसस्योपलब्धि निपाते विपाकस्य कम्पनिष्ठया शेषाणां यथाह मिति ॥ ६२ ॥
गङ्गाधरः ननु द्रव्याणां गुणाः कम्माणि च दृश्यन्ते पदाथाः, द्रव्यप्रभावश्च कीदृश इति ? अन उच्यते-रसेत्यादि। पत्र. वस्तुनि रसवीर्यविपाकानां सामान्यं यस्य रसस्य यत् काय्यं यस्य विपाकस्य च यत् कार्य यस्य वीर्यस्य च यत् कार्य तत्तस्य सामान्यं यत्र वस्तुनि लक्ष्यते तत्र कम्र्मणाञ्च यो विशेषो लक्ष्यते स कम्मणां विशेषस्तस्य वा वस्तुनः प्रभावः स्मृतः। तदुदाहरतिकटुक इत्यादि । चित्रकः कटुको रो पाके च कटुकः। वीर्ये चोष्णः । तस्य निपात इति रसनायोगे, कर्मनिष्ठयेति कर्मणो निष्टा निष्पत्तिः कर्मनिष्ठा क्रियापरिसमाप्तिः-- रसोपयोगे सति योऽन्त्याहारपरिणामकृतः कर्मविशेषः कफशुक्राभिवृद्धयादिलक्षणः, तेन पिाको निश्चीयते ; अधीवासः सहावस्थानं, यावदधीवासादिति यावच्छरीरनिवासात, एतच्च पाकात् पूर्व निपाताचचोद्ध ज्ञयम् । निपाताच्चेति शरीरसंयोगमात्रात् , तेन किञ्चिद वीर्यमधीवासादपलभ्यते, यथा-- आनूपमांसादेहगत्वम् , किञ्चिच्च निपातादेव लसते. यथामरीचादीनां तीक्ष्णत्वादि, किञ्चिच्च निपाताधीवासाभ्याञ्च, यथा--मरीचादीनां दीपनीयादीनाम् एव ; एतेन रसः प्रत्यक्षेणैव, विपाकस्तु नित्यपराक्षस्तत्कारणानुमीयते, वीर्यन्तु किञ्चिदनुमानेन, यथा--सैन्धवगतं शैत्यम् आनूपमांसगतं वा औष्ण्यं, किञ्चिच्च वीर्य प्रत्यक्षेणैव यथा--- राजकागतं तैष्यं घ्राणेन, पिच्छिलविशेदस्निग्धरुक्षादयः चक्षुःस्पर्शनाभ्यां निश्चीयन्ते इति वाक्यार्थः । एतच्च वीर्य सहजं कृत्रिमञ्च ज्ञेयम् ; एतञ्च यथासम्भवं गुरुलध्वादिषु वीर्येषु लक्षणं ज्ञेयम्, द्रव्यागामिति उपयुज्यमानद्व्याणाम् ; एतच्च वीर्यलक्षणं पारिभाषिकमेव ॥६२॥
चक्रपाणिः-प्रभावलक्षणमाह-रसवीर त्यादि। सामान्य मिति तुल्यता, विशेषः कर्मणाम् इति दन्त्याद्याश्रयाणां विरेचनत्वादीनां ; सामान्य लक्ष्यत इत्यनेन रसादिकार्यत्वेन यन्नाव
For Private and Personal Use Only