SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः सूत्रस्थानम् । पित्तकृत् स्पृष्टविणमूत्रः पाकोऽम्लः शुक्रनाशनः । तेषां गुरुः रयान्मधुरः कटुका लावतोऽन्यथा ॥ विपाकलक्षणस्याल्प-मध्यभूयिष्ठतां प्रति । द्रव्याणां गुणवशष्यात् तत्र तत्रोपलक्षयेत् ॥ ६१ ॥ शुक्रहा बद्धविष्मत्रो वातलश्च। एवं कटुरसस्य ये पूर्वोक्ताः कर्मविशषा वक्त शोधयतीत्यारभ्य लघुरुष्णो रुक्षश्चेत्यन्ताः। मधुरो विपाकः श्रेष्ठस्नेहभावात् श्रेष्ठः सृष्टविण्मूत्रकफशुक्रलः पूर्वोक्तमधुररसगुणश्च ।। अथाम्लः पाकः स्नेहभावस्य मध्यवान्मध्यमरूपेण सृष्टविष्मूत्रः शुक्रनाशनश्च मध्यमः। पित्तकृच्च। एवं पूवोक्ताम्लरसगुणश्च बोध्यः। इति । ननु विपाकादेव यदि द्रव्यगुणोदयः स्यात् तदा पाणां रसानां गणः कथं स्यादिति चेन् ? न। प्रागविपाकाद्धि रसकायं भवति पाकादुत्तरं विपाककाय्यं भवति । अथैषां त्रयाणां विपाकानां संशान्तरमाह--तेषामित्यादि। तेषां मधुराम्लकटु विपाकानां मध्ये मधुरः पाको गुरुः स्यादतो गरुतोऽन्यथा लघुपाको कटुकाम्लौ। तथा हि सुश्रुतादविरोधः। एषां विपाकलक्षणस्य शुक्रत्यादिकर्मणः स्वल्पमध्यभूयिष्ठतां प्रति व्याणां सम्प्रति यथोक्तविपाकलक्षणानां ध्यदे क्वचिदल्पत्वं क्वचिन्मध्यत्वं क्वचिच्चोत्कृरत्वं यथा स्यात्, तदाह-विपाकेत्यादि। विपाकलक्षणस्याल्पभूयिष्टतामुपलक्षयेत्, प्रतिप्रतिद्रव्याणां गुणवैशेप्यात् हेतोरित्यर्थः । एतेन द्रव्येषु यथा बैंशेप्यं मधुरत्वमधुरतरत्वमधुरतमत्वादि, ततो हेतोर्विपाकानामल्पत्वादयो विशेषा भवन्तीत्युक्त भवति । अत्र केचित् अवशेप्रतिरसं पाको भवति, यथा--- मधुरादीनां षण्णां पण्मधुरादयः पाका इति। केचिद् ब्रुवतेबलवतां रसानामबलवन्तो रसा वशतां यान्ति, ततश्चानवस्थितः पाकः ; तत्रैतद् द्वितयपाकव्यवस्थाकरणमनादृत्य सुश्रुतेन द्विविधः पाकः-..'मधुरः' 'कटु'श्चाङ्गीकृतः ; वैविध्यञ्च--पञ्चभूतात्मके द्रव्ये पृथिवीतोयातिरेकान्मधुरपाको भवति, शेषलघुभूतातिरेकात् तु कटुकः पाको भवति, यदुक्तम्- "व्येषु पच्यमानेषु येषु स्युः पृथिवीगुणाः । निवर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ।। तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु। निवर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते ॥” इति ; प्रतिरसपाक तथानवस्थितपाके च द्रव्यं रसगुणेनैव तुल्यं पाकावस्थायामपि स्यात्, तेन कश्चित् विशेषो विपाके र तत्र बुध्यत इति सुश्रुतेन तत् पक्षद्वयमुपेक्षितमिति साधु कृतम् ; तृतीयाम्लपाकनिरास. पुनर्दोषमावति, यतः व्रीहिकुलत्यादीनामग्लपाकतया पित्तकर्तृत्वमुपलभ्यते। अथ मन्यसे ---ब्रीह्यादेष्णवीय॑त्वेन तत्र पित्तकर्तृत्वम् ; तन्न मधुरस्य व्रीहेस्तन्मते च मधुर १२२ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy