SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५० चरक-संहिता। [आत्रेयभद्रकाप्यीयः ऊर्जयति मनो बोधयति इन्द्रियाणि दृढ़ीकरोति बलञ्च वर्द्धयति वातमनुलोमयति हृदयं तर्पयति आस्यमास्रावयति भुक्तमपकर्षयति वलेदयति जरयति प्रीणयति लघुरुष्णः स्निग्धश्च ॥४३॥ स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति तर्षयति संमील यत्यक्षिणी संवीजयति रोमाणि कर्फ विलालयति पित्तमभिवर्द्धयति रक्तं दूषयति मांसं विदहति कायं शिधिलीकरोति क्षीणक्षतदुर्बलानां * श्वथुमापादयति । अपि च क्षताभिहतदष्टदग्धभग्नशूलप्रच्युतावमूत्रितपरिसर्पितच्छिन्नरस इत्यादि। ऊर्जयति संन्यासादिभिरचेतनस्य मनसः प्रबोधनपूर्वकजीवनं स्थापयति। मनो बोधयति मृर्छादिभिरचेतनं मनो वोधयति। इन्द्रियाणि दश । स्वेषु कम्मसु । बलञ्च बर्द्धयति मनोबोधकखात् पार्थिवसाच्च । वातमनु लोमयति पार्थिवखेन गुरुवात् । हृदयं तपेयति हृदयस्थमनस्तपणात् । आस्यमास्रावयति आग्नेयखेन तीक्ष्णखात्। भुक्तमपकषयति स्वप्रभावादधस्तात् नयति, भुक्त क्लेदयति भुक्तं जरयति । प्रीणयति प्रीणनं करोति। इत्येवं कम्मे। अम्लो रसो लघुरुष्णः स्निग्धः। लघूष्णस्निग्धसमानाधिकरणः। लघ्वादयो गुणास्त्रयोऽम्लरसद्रव्ये वत्तेन्ते। भक्तरोचनादीनि च कर्माणि ॥४३॥ गङ्गाधरः-अतिमात्रोपयोगे दोषमाह-स एवंगुण इत्यादि। सोऽम्लो रस. सम्यगयोगयुक्त एवंगुणोऽपि एक एवायमम्लरसोऽत्यर्थमुपयुज्यमानो दन्तान् हयति। अक्षिणी संमीलयति मुद्रीकरोति। लोमानि संबीजयति उद्गमयति। कर्फ विलालयति गालयति । पित्तमभिवर्द्धयति । रक्त दृपयति । मांसं विदहति । कायं शिथिलीकरोति। दुबेलानां श्वयथुमापादयति। अपि च क्षतादीनि पाचयति आग्नेयस्वभावात् । जरयति भुक्तमेव। अवमूत्रितं मूत्रविषैर्जन्तुभिः, परिसर्पितञ्च स्पर्शविषैः कारण्डादिमिः ॥ ४॥४४॥ * क्षीणक्षतकृशदुर्बलानामिति वा पाठः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy