SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः] सूत्रस्थानम् । गुणा गुणाश्रया नोक्तास्तस्माद रसगुणान् भिषक् । विद्याद द्रव्यगुणान् कर्तुरभिप्रायाः पृथग्विधाः ॥ र्भावात् । ननु च कणादेन सप्त गुणाः परसादयः पठिताः, न तु युक्ति. संस्काराभ्यासास्त्रयः इति चेत् ? सत्यम्। परसादयः सप्त गुणाः प्रकृतिगुणा न तु काय्यगुणाः सव्वत्रैव द्रव्यगुणकर्मसु वर्तन्ते इत्यभिप्रायेण प्रकृतिगुणपाठे पठिखोक्तम्-“पृथिव्या गन्धः, अपां रसः, तेजसो रूपम् । एतेन गुदियो द्रवादय उप्णादयश्च व्याख्याताः” कारणगुणपूर्वकाः पृथिव्यादौ पाकजाः। पृथिव्यादिषु रूपरसगन्धस्पर्शा द्रव्यानित्यवादनित्याः। एतेन नित्येषु नित्या उक्ताः। “सङ्ख्याः परिमाणानि पृथक्वं संयोगविभागी परखापरखे कर्म च रूपिद्रव्यसमवायाच्चाक्षपाणि”। “अरूपिष्वचाक्षुषाणि" संयोगविभागयोः संयोगविभागाभावोऽणुखमहत्त्वाभ्यां व्याख्यातः। गुणो विभाव्यते गुणेनापि। इति परखादिसप्तगुणेनापि प्रकृतिगुणः कार्यगुणोऽपि विभाव्यते। न तु पाकजगुणेन गुरुखादिना गुणो विभाव्यते । इति गुरुखादयः संस्काराभ्यासयुक्तयश्च काय्यगुणास्तस्मात् कणादेन नोक्ता गुणपाठे। इति ॥३६॥ गङ्गाधरः-- अथ द्रव्यभेदानुत्तवा रसान वक्त यथा वक्तव्यास्तं प्रकारमाहगुणा इत्यादि। गुणा इति प्रकरणादिह पार्थिवादीनां द्रव्याणां कार्यभूतानां कार्यगुणा गुरुखादयो “यत्राश्रिताः कम्मगुणाः कारणं समवायि यत् । तद्रव्यम्" इत्यनेन द्रव्याश्रिता एवोक्ताः। न तु काय्ये गुणाश्रया उक्ताः। तस्मात् कार्यगुणगुरुखाद्याश्रयखेनोपदेक्ष्यमाणानां रसानां मधुरादीनां गुणान् गुरुखादीन् चक्रपाणिः-सम्प्रति रसानां परस्परसंयोगो गुण उक्तः, तथा चाऽग्रे स्निग्धत्वादिगुणो वाच्यः, स च गुणरूपर से न सम्भवतीत यथा रसानां गुणनिर्देशो बोद्धव्यः, तदाह-गुणा इत्यादि। गुणा गुणाश्रया नोक्ता इति । दीईजीवितीये “समवायी तु निश्चेष्टः कारणं गुणः” इत्यनेन, रसगुणानिति रसे स्निग्धत्वादीन् गुणान् निर्दिष्टान् तद, रसाधारद्रव्यगुणानेव विद्यात् । ननु, यदि द्रव्यगुणा एव ते, तत् किमिति रसगुणत्वेनोच्यन्त इत्याह-कर्तुं रिति तन्वकर्तुः, अभिप्राया इति । तत्र तत्रोपचारेण तथा सामान्यशब्दादिप्रयोगेण तन्तकरणबुद्ध यः, सामान्यशब्दोपचारादिप्रयोगश्च प्रकरणादिवशादेव स्फुटत्वात् तथा प्रयोजनवशाच्च क्रियते ; तच्च प्रकरणादि, "अतश्च प्रकृतं बुद्धा" इत्यादी दर्शयिष्यामः ; इह च द्रव्यगुणानां रसेषु यदपचरणं, तस्यायमभिप्रायःयत्-मधुरादिनिर्देशेने व स्निग्धत्वादिगुणा अपि प्रायो मधुराद्यव्यभिचारिणो द्रव्ये निर्दिष्टा भवन्तीति न मधुरत्वं निर्दिश्य स्निग्धत्वादिप्रतिपादनं पुनः पृथक् क्रियत इति । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy