SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५श अध्यायः] सूत्रस्थानम्। ८६१ नाम्, त्रिवृत् सुखविरेचनानाम्, चतुरङ्गल मृदुविरेचनानाम्, स्नुपयस्तीक्ष्णविरेचनानाम्. प्रत्यकपुष्पी शिरोविरेचनानाम्, विडङ्ग क्रिमिनानाम्, शिरीषो विषन्तानाम, खदिरः कुष्ठन्नानाम् , राना वातनानाम् , आमलकं वयःस्थापनानाम् । हरीतकी पथ्यानाम् । एरण्डमूलं वृष्यवातहराणाम् । पिप्पलीमूलं दीपनीयपाचनीयानाहप्रशमनानाम्। उदीच्यं निर्वापणीयदीपनीयपाचनीयच्छईतीसारहराणाम्। कटुङ्ग सांग्राहिकदीपनीयपाचनीयानाम्। अनन्ता सांग्राहिकदीप वमनादिकृतामौषधानामुपयोगीनि यानि द्रव्याणि तेषां मध्ये मदनफलं श्रेष्ठ तमं वमनोपयोगि आस्थापनोपयोगि अनुवासनोपयोगि च। सुखविरेचनानां द्रव्याणां मध्ये त्रिन्मूलं श्रेष्ठतमं सुखविरेचनम् । मृदुविरेचनानां द्रव्याणां मध्ये चतुरङ्गुलवीजं शम्पाकवीजं श्रेष्ठतमं मृदुविरेचनम्। . तीक्ष्णविरेचनानां मध्ये स्नुकपयः स्नुहीक्षीरं श्रेष्ठतमं तीक्ष्णविरेचनम् । शिरोविरेचनानां द्रव्याणां मध्ये प्रत्यकपुष्पी अपामार्गवीजं श्रेष्ठतमा शिरोविरेचनी। विड़ङ्गं क्रिमिन्नानां श्रेष्ठतमम् । शिरीषो विषघ्नानां श्रेष्ठतमम् । खदिरः कुष्ठन्नानां श्रेष्ठतमः कुष्ठन्नः । रास्ना वातहराणाम् श्रेष्ठतमा वातहरी। आमलकं वयःस्थापनानां श्रेष्ठतमं वय स्थापनम् । हरीतकी पथ्यानां मध्ये श्रष्ठतमा पथ्या। एरण्डमूलं वृष्यवातहराणाम्। वृष्याण्यथ च वातहराणि यानि तेषां मध्ये एरण्डमूलं श्रेष्ठं वृष्यवातहरम् । रास्ना तु न दृष्या। ततो न दोषः। पाचनीयानां दीपनीयानामानाहप्रशमनानाञ्च मध्ये श्रेष्ठतमं पिप्पलीमूलं दीपनीयं पाचनीयम् आनाहप्रशमनश्च । उदीच्यं निर्धापणीयानां दीपनीयानां पाचनीयानां छविहराणामतिसारहराणां मध्ये उदीच्यं बालक श्रेष्ठतमम् । दीपनीयवपाचनीयवाभ्यां श्रेष्ठतममपि पिप्पलीमूलं न निळपणीयलादिभिस्तेन न दोषः। कान्तरैः पृथश्रेष्ठतमखेनोक्तम् । कङ्गं श्योनाकं सांग्राहिकदीपनीयपाचनीयानाम् मध्ये श्रेष्ठतमं । अनन्ता अनन्त मिति त्रितयमुच्यते ; एवमन्यत्रापि तुल्यश्रेष्ताभिधानं तजातीयश्रेष्ठताभिप्रायेण तुल्यत्वेन च For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy