SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८० चरक-संहिता। [ यजापुरुषीयः तमुवाच भगवानात्र यः। येषां हि विदितमाहारजातमग्निवेश गुणतो द्रव्यतः कम्मतः साक्यवशश्च मात्रादयो भावास्त एतदेवमुपदिष्टं विज्ञातुमुत्सहेरन् । यथा तु खल्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्व एव भिषजो विज्ञास्यन्ति तथैव तदुपदेक्ष्यामः। मात्रादीन् सर्वानुदाहरन्तु * । तेषां हि बहुविधा विकल्पा भवन्ति ॥ १७॥ गङ्गाधरः-तहि चैवमुपदिष्टं के भिषजो हिताहितं विज्ञास्य-तीति ? अत उच्यते-येषां हीत्यादि। येषां भिजां गुगतो द्रव्यतः कर्मतः सर्वावयवशश्चाहारजातं विदितं, विदिताश्च येषां तस्य मात्रादयो भावा मात्राकालक्रियाभूमिदेहदोषपरुषावस्थान्तराणि, ते भिपज एवंप्रकारेण समान् धातून् प्रकृतौ स्थापयति विषमांश्च समीकरोति यदाहारजातं तद्धितं तद्विपरीतमहितमित्येवंप्रकारेणोपदिष्टमेतद्धिताहितं विज्ञातुमुत्सहेरन्। येषां गुणादितो न विदितं ते कथं हिताहितं विज्ञास्यन्तीति ? अत उच्यते--यथा खित्यादि। भूयिष्ठकल्पा ये सवभिषजस्ते खल्वेवमुपदिष्टं यदाहारजातं समान् धातून प्रकृतौ स्थापयति विषमांश्च समीकरोति तद्धितं तद्विपरीतमहितमित्येतत्प्रकारेणोपदिष्टमेव तद्धिताहितं ते गुणादितो यथा विज्ञास्यन्ति तथैव तद्धिताहितमुपदेश्यामः। तर्हि किं तस्याहारजातस्य मात्राबवस्थान्तराणाप्युपदेश्यन्ते इति ? अत उच्यते–मात्रादीनित्यादि। ये सर्व भिपजो गुणतो द्रव्यतः कम्मेतः सावयवशश्चाहारजातं न विदन्ति ते भूयिष्ठकल्पाः मात्रादीन् सान मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थाविशेषान् कम्मैकाले दृष्ट्वा विविच्योदाहरन्तु । कस्मादिति ? अत उच्यते-तेषां हीत्यादि । हि यस्मात् तेषां चक्रपाणिः-एतदेवासभिषगज्ञेयत्वं लक्षगस्याह-येषामित्यादि। गुगत इतीह प्रकरणे गुरुलघुत्वादिगुणतः ; द्रव्यत इति कारणतः, यथा- "इदमाप्यमिदमाग्नेयम्” इत्यादि । किंवा द्रव्यत इत्याहारद्रव्याद् रक्तशाल्यादेः ; कर्मतः कार्य्यत:, यथा-"इदं जीवनमिदं वृहणम्" इत्यादि ; सावयवशश्चेति रसवीर्यविपाकप्रभावेभ्यः; मात्रादयश्चानन्तरोक्ताः पुरुषावस्थान्तरान्ता ज्ञेयाः। आहारतत्त्वञ्च गुणादिभ्यो विदितम्, मात्रादयश्च विदिता इति योजना; किंवा गुगशब्देन रसवीर्यादीनामपि ग्रहगम् ; सवियवशश्वेति मात्रादिज्ञानेन सम्बध्यते । यथेत्यादौ एतदिति हिताहितम् ; भूयिष्ठकल्पा नानाप्रकारा उत्तमाधममध्यमा इत्यर्थः, * मात्रादीन् सर्वान् भावानुदाहरन्तः इति चक्रः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy