________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
- सूत्रस्थानम् । शुक्रात॑वसंयोगः पश्चादात्मादीनामित्यतः क्रमेण हेतुसंयोगादुत्तरं समवायः स्यात्तेन समवायिकारणानां संयोगनाशात्तु काय्यघटादे शेऽपि घटादाकनित्यनित्योभयविधसमवायेनैव स्वस्वरूपप्रकाशात् तदात्मकस्वभावकाय्य खलक्षणस्य तदपरापरसाधारणमान्नित्यः साधारणे तन्मात्रे खनित्यः। न हि जन्मवन्नाकार्यस्वरूपेण सम्पद्यते किश्चित् । तस्माद्भावानां जन्मरूपः समवायोऽयं स्वभावो नित्यः ।
ननु जातोत्तरकालमप्याघानीयगुणादीनां योगोऽप्येवं भवति, न हि तद गुणाद्याधानं विना तदवस्थागमनं स्यादतः सोऽपि नित्यः सम्भवतु नाप्यतिरिक्तो वास्तु, इत्यत आह, यत्रेत्यादि ।—हि यस्मात् यत्र द्रव्य वत्तते तत्र द्रव्ये गुणो गुणादिगौ ण्यात् नानियत एवेति, द्रव्याणां हि गुणा विना भूतत्वस्वभावं तेन च समवायोऽनपायीति एका नित्याऽऽधेया गुणास्वनियता धनबान्धवादिक्षयलाभादिना दुःखसुखादीनां वह्निजलादीनामिवौष्ण्यशीतादीनाश्च मुहुर्मुहुर्योगायोगयोः पुरुष दर्शनात् मुहु हुर्भङ्गोत्पत्तिभ्यां तौ तु योगायोगी न नित्याविति। यावत् समवायिहेतूनां द्रव्याणां संयोगात् कार्य समवायस्योत्पत्तियु क्तिरूपैव तत्काय्य हि समवायस्य योजना वर्त्तत एवेति। इत्यस्य सिद्धभावस्य अनुकूलव्यापारो जन्मार्थधातर्थस्तत्रातीतखादेरन्वयः। भवद्भ तभविष्यदितिभावत्रयाधाराः काला वतमानकालादयस्तदाधेयखाद्भावा अपि वर्तमानादयः स्युरिति समवायस्य नित्यखेऽपि तन्मात्रखनित्यखादुत्पत्तिः क्षणिका किंवा तदनुकूलव्यापाररूपा क्षणिका न तु समवायरूपेति तुल्यं वादिभिरस्माकमिति। अथ समवायो यद्यपृथक त्वं तर्हि कथं समवायाख्योऽपरः पदार्थः स्वीक्रियतेऽतिरिक्तः? पृथक्खाभावो हि खल्वपृथक्खं तच्चाभावविशेष एवेति सामान्य विशेषद्रव्यगुणकाभावा इति षडेव पदार्था भावाभावरूपेण द्विधा भवन्ति, इत्येवं वादिवितण्डिताण्डवं परमाप्तात्रेयादिमहर्षिगणेन शानचक्षुषा समुपदिष्टार्थतत्वं विद्वद्भिः सानिपातिकोन्मत्तताण्डवमिव मन्यमानैनवालोक्यते, वैतालिकखादिव येनोच्यते यत्नास्ति तद्वस्तु इति । तद्यथा--स भावो यो भवति, भू सत्तायामित्यस्य कृयोगे निष्पन्नो भावशब्दः,, न विनश्यति, अब हेतुमाह, यत्र हीत्यादि ।-यत्र द्रव्यं नियतं नित्य, यथा-आकाशं, न तत्र नित्य आकाशेऽनियतो विनाशी गुणः कश्चिदिति शेषः । एवं मन्यते-नित्ये ब्योग्नि परिमाणमपि
For Private and Personal Use Only