SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। विधिशोणितीयः ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः। मुखनासाक्षिपाकश्च * पूतिघ्राणास्यगन्धता ॥ गुल्मोपकुशवीसर्प-रक्तपित्तप्रमीलकाः । विद्रधी रक्तमेहश्च प्रदरो वातशोणितम् ॥ वरस्यम् + अग्निनाशश्च पिपासा गुरुगात्रता। सन्तापश्चातिदौर्बल्यमरुचिः शिरसोऽतिरुक ॥ विदाहश्चान्नानस्य तिक्ताम्लोदगिरणं क्लमः। क्रोधप्रचुरता बुद्धेः संमोहो लवणास्यता ॥ स्वेदः शरीरदोर्गन्ध्यं मदः कम्पः स्वरक्षयः। तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम् ॥ गङ्गाधरः-तत इत्यादि। उपकुशो मुखरोगविशेषः। उक्तं हि सुश्रुते-"वेष्टेषु दाहो भवति तेन दाताश्चलन्ति च। यस्मिन्नुपकुशो नाम पित्तरक्तकृतो गदः॥” इति। प्रमील का इति सततप्रध्यानम् । क्लम इति सौश्रुतो-“योऽनायासश्रमो देहे प्रद्धः श्वासवर्जितः। क्लमः स इति विज्ञ य इन्द्रियार्थप्रबाधकः॥” इति । बुद्धः सम्मोहो मनःसम्मोहः । लवणास्यता यद्यपि लवणो रसः कफकर्म तथापि रक्तस्यापि पाञ्चभौतिकत्वेन लवणरसस्य प्रत्यक्षोपलब्ध्या कफकर्मलवद्रक्तकर्मत्वं न विरुद्धम्। स्वेदो धर्मः। मदो मत्तता। तन्त्रानिद्रातियोगश्चेति । तत्र तन्द्रा तु-“इन्द्रियार्थेष्वसं वित्तिगौरवं जम्भणं क्लमः। निद्रान्स्येव यस्येहा तस्य तन्द्रां विनिर्देशेत् । तमोवातकफात् तन्द्रा निद्रा श्लेष्मतमोभवा ॥” इत्यन्यत्र दर्शनात् । रक्तस्य च तमोबहुलखात् तमो. गुणबहुलतन्द्रानिद्रयोरतियोगः स्यात् । अत एव च तमसोऽन्धकारस्यातिमात्रस्य दर्शनं भवति । कडूः कण्डूयना। उत्कोठः । पिड़का त्रिशोथीये दर्शिता । चक्रपाणिः-उपकुशो मुखरोगविशेषः, यदुक्त सुश्रुते-"वेष्टेषु दाहो भवति तेषु दन्ताश्वलन्ति च । यस्मिन्नुपकुशो नाम पित्तरक्तकृतो गदः ॥” इति । कुष्ठ इत्युक्त ऽपि चर्मदलाभिधानं विशेषार्थम् । शोणिताश्रया इतिभाषया शोणितस्य वातादिवत् स्वातन्वेषण रोगकर्तृत्वं निरा. * मुखपाकोऽनिरोगश्च इति चक्रः । । वैव मिति पाटः क्वचित् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy