________________
Shri Mahavir Jain Aradhana Kendra
८२०
www.kobatirth.org
चरक संहिता | इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः । शोथश्चैवंविधाश्वान्ये शीघ्रमप्रतिकुर्व्वतः ॥ २॥ शस्तमुल्लेखनं तत्र विरेको रक्तमोक्षणम । व्यायामश्चोपवासश्च धूमाश्च खेदनानि च ॥ सचौद्रश्चाभयाप्राशः प्रायो रुचान्नसेवनम् । चूर्णप्रदेहा ये प्रोक्ताः कण्डूकोठविनाशनाः ॥ ३ ॥ त्रिफलारग्वधं पाठा सप्तपणे सवत्सकम् । मुस्तं निम्बं समदनं जलेनोत्कथितं पिवेत् ॥ तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम् । मात्राकालप्रयुक्तेन सन्तर्पणसमुत्थिताः ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
3
विसूच्यादयः । इन्द्रियस्रोतसां चक्षुरादीनामधिष्ठान गोलकादीनामतिमलेन तेषां स्रोतोपो वोध्यः । बुद्धेर्मोह इति मनोमोहः । बुद्धेरस्फूर्त्यनुमेयः । प्रमीलकः सर्व्वदा प्रध्यानम् । एवंविधाश्वान्ये प्रतिश्यायादयः || २ |
गङ्गाधरः- तेषां प्रमेहादीनां जन्मनः पूर्वं तत्प्रतीकारार्थं क्रियासूत्राप्याह-शस्तमित्यादि । उल्लेखनं वमनम् । उल्लेखन विरेकरक्तमोक्षणव्यायामोपवास धूमस्वेदक्षौद्रान्विताभाभक्षणरुक्षान्नसेवनादीनां स्निग्धसन्तर्पणविपरीतत्वात तन्निमित्तकप्रमेहादिप्रशमकत्ववचनेन अरुक्ष सन्तर्पणनिमित्तजमूच्र्छा भ्रमादिव्याधिप्रशमकत्वं स्निग्धादीनामुक्त' भवतीति ये चोक्ता इत्यारग्वधीये ॥ ३ ॥
गङ्गाधरः - त्रिफलेत्यादि । समदनमिति मदनफलकल्कं वमनार्थं युक्त्या प्रक्षिप्य पिवेदित्यथः । शमनार्थन्तु तुल्यमानेन ग्राह्यम् । तेनेति त्रिफलादिकथितपानेन । अयमुल्लेखनार्थमपि योगः ॥ ४ ॥
सन्तर्पणीयः
पिवेद्" इति । शय्यासनसुखेरतत्वेनैव चेोषित्वे लब्ध पुनस्तद्वचनं शय्यासनस्थितस्यापि गीताङ्गचालनादिचेष्टानिषेधार्थम् आमप्रदोषा विसूचिकादयः, प्रमीलकः सततं प्रध्या
For Private and Personal Use Only
नम् ॥ १२ ॥
चक्रपाणिः - सक्षौद्रश्चाभयाप्राश इति क्षौद्रेण सह हरीतकीप्राशः, किंवा अगस्त्यहरीतक्यादिप्राशः । ये चोका इत्यारग्वधीये । तेनेति क्वाथेन करणभूतेन अभ्यस्यतोऽभ्यासं कुर्वाणस्य, किंवा तेन क्वाथेन त्रिफलादीन्यभ्यस्यत इति योजना ॥ ३४ ॥