SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१श अध्यायः] सूत्रस्थानम् । ७६३ अस्वग्नञ्च व्यवायञ्च व्यायाम चिन्तनानि च। स्थौल्यमिछन् परित्यक्तुं क्रमेणाभिप्रवद्धयेत् ॥ स्वन्नो हर्षः सुखा शय्या मनसो निर्वतिः शमः । चिन्ताव्यवायव्यायाम-विरतिः संप्रहर्षणम् * ॥ नवान्नानि नवं मद्य ग्राम्यानूपौदका रसाः। संस्कृतानि च मांसानि दधि सर्पिः पयांसि च ॥ इक्षवः शालयो मापा गोधूमा गुडवैकृतम् । वस्तयः स्निग्धमधुरास्तैलाभ्यङ्गश्च सर्वदा॥ निग्धमुद्वर्त्तनं स्नान-गन्धमाल्यनिषेवणम् । शुक्ल वासो यथाकालं दोषाणामवसेचनम् ॥ रसायनानां वृष्याणां योगानाञ्चोपसेवनम् । हत्वातिकार्यमाधत्त नृणामुपचयं परम् ॥ १६ ॥ गङ्गाधरः-अतिस्थौल्यप्रतिक्रियामुक्त्वातिकशस्य प्रतिक्रियामाह-अस्वाममित्यादि। अस्वप्नादिकं क्रमेण वज्जयितु स्वप्नादिकं क्रमेण वर्द्धयेत् । खप्न इत्यादि । सुखा शय्या सुखदशय्या। मनसो निन् तिः अनित्य. भावः। शमः शान्तिमनस एवेत्यन्वयः। चिन्तादिभ्यो विरतिनिवृत्तिः । ग्राम्यानपोदकमांसानां रसा ग्राम्यानूपौदका रसाः। संस्कृतानि च मांसानीति वचनेन मांससामान्यस्य संस्कारेण लघुखमुत्पाद्य प्रयोगः काश्ये न पथ्यं वोध्यमिति ज्ञापकेन नवान्नादीनां सर्वेषां गुरुसन्तर्पणानामपि संस्कारेण लघुखनाधाय काश्येन प्रयोग इति ज्ञापितम् । तथा प्रकृतिलघूनामपि सन्तर्पणखमाधाय प्रयोगः कार्शी वोध्यः। प्रकृतिलघनां तथा प्रकृतिसन्तपेणानाञ्च चक्रपाणिः-कार्यचिकित्सामाह-स्वप्न इत्यादि। शमः शान्तिः। ननु नवान्नादीनां गुरूणां संस्कारादिनाऽगौरवं प्रतिकर्तव्यमग्निमान्द्यभयात्, तत् किमिति लघून्येव रक्तशाल्यादीनि तथा न क्रियन्ते, तानि हि प्रकृत्या लघूनि तर्पणानि च मधुरयोगात् ? न, उभयस्याभिप्रेतत्वात्, प्रकृतिलघु च तर्पणं रक्तशाल्यादि, संस्कादिलघु च नवान्नादि सन्तर्पणकरणमिति ; एवं पूर्वोक्त * प्रियदर्शनमिति चक्रपाणिः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy