SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८८ चरक-संहिता। { अष्टौनिन्दितीयः मेदस्यतीवसंवृद्ध सहसैवानिलादयः । विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम् ॥ ७॥ मेदोमांसातिवृद्धत्वाञ्चलस्फिगुदरस्तनः । अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ॥८॥ इति मेदस्विनो दोषा हेतवो रूपमेव च । निर्दिष्टं वक्ष्यते वाच्यमतिकार्ये त्वतः परम् ॥ ६ ॥ सेवा रुक्षान्नपानानां लङ्घनं प्रमिताशनम् । क्रियातियोगः शोकश्च निद्रावेगविनिग्रहः ॥ रुक्षस्योद्वर्त्तनस्तानस्याभ्यासः प्रकृतिजंग। विकारानुशयः क्रोधः कुर्वन्त्यतिकृशं नरम् ॥ १०॥ व्यायाममतिसौहित्यं क्षुत्पिपासामथौषधम् । कृशो न सहते तद्वदतिशीतोष्णमैथुनम् ॥ गङ्गाधरः-मेदोऽतिटद्धौ दोषान्तरमाह-मेदस्यतीवेत्यादि । स्पष्टम् ॥ ७॥ गङ्गाधरः-ननु मेदस्खी कथं विज्ञायत इति ? अतोऽतिस्थूललक्षणमाहमेदोमांसेत्यादि। इति निर्दिष्टमित्यन्वयः। अतिकाश्यं तु दोपा हेतवो रूपमेव च इति यत्तत् वाच्यं वक्तव्यं नोक्तमतः परमूई तद्वक्ष्यते इत्यर्थः ।।८।९।। गङ्गाधरः-तत्रादौ हेतूनाह-सेवेत्यादि। प्रमितस्य स्तोकस्य मात्राल्प. स्याशनमिति प्रमिताशनम् । क्रियातियोगो वमनादिसंशोधनक्रियाणामति. योगः। निद्राया रात्रौ स्वभावतः प्रवृत्ताया विनिग्रहो न तु दिने वेगनिग्रहः । उद्वर्तनश्च स्नानञ्च तत्तस्य रुक्षस्य स्नेहतैलादिहीनस्य अभ्यासः सततं क्रिया। प्रकृतिरतिकृशमातापित्रोः शोणितशुक्रस्य स्वभावः। जरा वाक्यम् । विकारानुशयो व्याधेश्चिरानुत्तिः ॥१०॥ गङ्गाधरः-अतिकृशस्य दोषानाह-व्यायाममित्यादि। व्यायामाद्यसहत्वे क्रमात् । अतिस्थूललक्षणमाह-मेदोमांसेत्यादि। वाच्यमभिधेयम्, किंवा, वाच्यमिति निन्दितम् अवमिति यावत् ॥५-८॥ चक्रपाणिः-प्रमितस्य स्तोकस्याशनं प्रमिताशनम्, क्रियातियोगो वमनातियोगः, प्रकृतिदेह For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy