SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०श अध्यायः सूत्रस्थानम् । ७६६ श्लेष्मणः स्थानानि। तत्राप्युरो विशेषेण श्लेष्मणः स्थानम् ॥ ६॥ सर्वशरीरचरास्तु खलु वातपित्तश्लेष्माणो हि सर्वस्मिन् शरीरे कुपिताकुफ्तिाः शुभाशुभानि कुर्वन्ति। प्रकृतिभूताः शुभान्युपचयबलवणप्रसादादीनि। अशुभानि पुनविकृतिमापन्नानि विकारसंज्ञकानि। तत् विकाराः सामान्यजा वयवभागः। अत्राप्युरो विशेषेण श्लेष्मणः स्थानमिति, क्लेदकावलम्बकश्लेषकाणां त्रयाणामधिष्ठानत्वात्। प्रायेणेषु स्थानेषु स्थितस्य कस्य जये सवश्लेष्मविकारावजयः स्यादित्यभिप्रायेणोक्तान्येतानि स्थानानि। मुश्रते तु इलेप्मणः स्थानमामाशय इति यदुक्तं तत्राप्यामाशयोद्ध भागाभिप्रायेण बोध्यम् । अथवा पाचकपित्तस्थानाभिप्रायेण। सुश्रुतेनोक्तं-पक्कामाशयमध्यं पित्तस्येति । अत्र खामाशयः पित्तस्थानतया यदुक्तं तद रञ्जकपित्ताभिप्रायेणेति बोध्यम् । आमाशयः श्लेष्मणः स्थानं यत् सुश्र तेनोक्तं तत् क्लेदकश्लेष्मस्थानाभिप्रायेण। अत्र खपि तदभिप्रायेणेति न विरोधः। एवमेव स्थानभेदेन लक्षणप्रभेदेन परस्परानुबन्धवातादीनां मिश्रीभावे सन्देहस्पों न स्यादिति भावः ॥६॥ गङ्गाधरः-स्थानभेदवचनस्य प्रयोजनान्तरमाह-सव्वेत्यादि। सर्वशरीरचरखमेपां त्रयाणामेव पञ्चपञ्चात्मकलेन बोध्यम् । न केवलं व्यानभ्राजकश्लेषकमात्रेण। तथाले तु कुपिताकुपिताः शुभाशुभानि कुव्वन्तीति वचनस्यानकान्तिकवप्रसङ्गात् प्राणादिपाचकादिक्लेदकादीनामपि कुपिताकुपितानां शुभाशुभकत्तु खात्। सवस्मिन् हीति हिशब्दार्थस्य यस्मादित्यस्य ततो विकारा इत्यत्र तत् इत्यनेन सहान्वयः। किंवा एवार्थे हि सबस्मिन्नेव शरीरे इत्यर्थः। तत् इति तत्रेत्यर्थः । कुपिताकुपिताः शुभाशुभानीत्यस्यानुलोमतत्रयुक्त्यान्वयशङ्कानिरासार्थ शुभा. शुभानि च विवरितुमाह-प्रकृतीत्यादि विकारसंशकानीति । वाते सर्ववातविकारावजयः ; लसीकोदकस्य पिच्छाभागः, पित्तस्थाने आमाशय इति आमाशयाधो. भागः, श्लेष्मस्थानेप्वामाशय आमाशयोद्ध भागः ॥६॥ . चक्रपाणिः--सामान्यजा इति वातादिभिः प्रत्येकं मिलितैश्च ये जन्यन्ते । नानात्मजा इति For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy