SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८८ चरक-संहिता। [कियन्तःशिरसीयः शिरोगता वै धमनीर्वायुराविश्य कुप्यति । ततः शूलं महत् तस्य वातात् समुपजायते ॥ निस्तुदेोते भृशं शडी घाटा सम्भिद्यते तथा। भ्र वोर्मध्यं ललाटञ्च तपतीवातिवेदनम् ॥ बध्यते स्वनतः श्रोत्र निष्कृष्यते इवारिणी । पूर्णतीव शिरः सव्वै सन्धिभ्य इव मुच्यते ॥ स्फुरत्यतिसिराजालं स्तभ्यते च शिरोधरा । स्निग्धोष्णमुपशेते च शिरोरोगेऽनिलात्मके ॥८॥ कटुम्ललवणतार-मद्यक्रोधातपानलः। पित्तं शिरसि संदुष्टं शिरोरोगाय कल्पते ॥ वायुः शिरोगता धमनीराविश्य कुप्यति । ततः शिरोगतधमनीप्रविष्टात् कुपिताद वातात् तस्य जनस्य शिरसि महच्छुलं समुपजायते । तच्छूलं यथा-निस्तुदाते इत्यादि वातजशिरःशूललक्षणम् । शङ्खो हो भृशं निःशेषतस्तुदाते सूचीभिरिव व्यथेते। तथा घाटा सम्भिद्यत सम्यगभिन्नवत् पीड्यते। भ्र वोमेध्यं ललाटश्चातिवेदनं यथा स्यात् तथा तपतीव तापयुक्तमतिवेदनायुक्तञ्च भवति । द्व श्रोत्रे बध्यते। स्वनतः सततशब्देन सम्बध्येते। निष्कृष्येते इवाक्षिणी । द्वे चक्षुषी स्थानान्निगते इव भवतः। सर्च शिरः कण्टादृद्ध सर्व घूर्णतीव । तथा सर्व शिरः सन्धिबन्धनान्मुच्यत इव श्लथीभवति। शिरसि यावत्यः सिरास्तावसिराजालमतिस्फुरति स्पन्दतेऽतिशयेन । शिरोधरा ग्रीवा स्तभ्यते स्तब्धा भवति। स्निग्धोष्णमुपशेते वातहरत्वादिति। एतल्लक्षणमनिलात्मके शिरोरोगे भवति ॥८॥ गङ्गाधरः--अथ पित्तजशिरःशूलमाह-कटुम्लेत्यादि । स्पष्टम् । दह्यत इत्यादि । मारू पिकादयोऽत्र प्रकरणे शिरोरोगशब्देनोच्यन्ते, शिरोरोगशब्दस्य शूल एव रुजाकरे घृत्तत्वात् : तीक्ष्णपानं तीक्ष्णमद्यपानं, किंवा तीक्ष्णं मदिरादि ; बध्येत इव बध्येत इत्यर्थः पीडायुक्तस्वे न ॥ ७-~८॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy