SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ चरक-संहिता। दीर्घजीवितीयः शीतं रूपञ्च शुक्ल संसर्गात् । गुरुखद्रवत्वस्निग्धस्वमन्दखसरखसान्द्रवमृदुखपैच्छिल्यगुणा अवयक्ताः। वक्ष्यन्ते हि गुरुद्रवस्निग्धशीतमन्दसरसान्द्रमृदुपिच्छिलरसगुणबहुलान्याप्यानि। भूमिश्चैकाऽवयक्तगन्धानभिवयक्तगुरुखखरवकठिनखमान्यस्थैय्यवैशद्यसान्द्रसगुणा निसर्गात् । पूर्वभूतानुप्रवेशात्तु रसवती च रूपवती च स्पर्शवती च शब्दवती च, तत्र रसादयश्चेषयक्तास्तत्र स्पर्शः खरश्चलनञ्चाधस्तात् स्थिरं रूपञ्च कृष्ण संसर्गात् । वक्ष्यन्ते हि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि। आत्मा पुनश्चेतनाधातुनिष्क्रियो निगुणः सच्चिदानन्दः आदिरनादिः स्वतन्त्रः सर्वगो वशी विभुः साक्षीति, स च सत्त्वकरणो गुणमुपाददानो जीवाख्यः सुखी च दुःखी च इच्छावांश्च द्वेषवांश्च स्मृतिमांश्च धृतिमांश्च बुद्धिमांश्च चेतनावांश्वाहङ्कारवांश्च प्रयत्नवांश्च भवति । मनस्तु रजस्तमोऽतिनिष्कृष्टसत्तगुणबहुलात्मकं परममूक्ष्मं च। तच्च लोके त्रिविधं, शुद्धं राजसं तामसञ्च ; तेषान्तु त्रयाणामपि सत्त्वानामेकैकस्य भेदाग्रमपरिसङ्ख्येयं तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानवाच्च शरीरं ह्यपि सत्त्वमनुविधीयते सत्त्वञ्च शरीरम् । तत्र कतिचित् सत्त्वभेदाः सादृश्यानि शेन । सप्तविधं शुद्धं ब्राह्मयादिभेदात् । षड्विधं राजसमासुरादिभेदात् । त्रिविध तामसं पाशवादिभेदादिति । वक्ष्यते महति गर्भावक्रान्त्यां शारीरे। कालोऽपि निष्क्रियो निर्गुणः परममहत्परिमाणोऽपि कार्यगुणग/दिगुणाभावात् स च लोके संवत्सरः शीतोष्णवर्षलक्षणः। एवं दिगपि खादिभ्योऽतिरिक्ता प्रकृतिभूता वैकारिकादहङ्कारादाकाशस्याधिदेवता दिक क्रियागणव्यपदेशाभावादसती न च नास्ति न चास्तीत्युच्यते लोकसर्गे खभिव्यज्यते प्राच्यादिरूपेण। न चायमाकाशोऽस्पर्शखात् । स्पर्श वत्खाभावेऽपि इति इद मिति यतः सा दिगिति लिङ्गात् । न च वायुरस्पर्श खात् वायुः पुनः स्पर्श वान् नीरूपः तत्स्वभावत्वात् नापि ज्योतिभवति अरूपखात् ज्योतिस्तु रूपवत् । नापि च जलं रसद्रवखाभावात । जलञ्च रसवद्रव्यश्च । नापि क्षितिरगन्धखात; क्षितिस्तु गन्धवती। नाप्यात्मा चैतन्याहेतुखात् आत्मा हि चैतन्ये हेतुः। न च मनोऽर्थाग्रहणात् मनो ह्यर्थ इदमेव चात्मनश्चतनत्व, यदिन्द्रियसंयोगे सति ज्ञानशालित्व', न निकृष्टस्यात्मनः चेतनत्वं, यदुक्तम् "आत्मनः करणैर्योगात् ज्ञानं तस्य प्रवर्तते" इति । अत्र सेन्द्रियत्वेन वृक्षादीनामपि चेतनत्व बोद्धव्यं, तथा हि सूय्यभक्ताया यथा यथा सूर्यो भ्रमति तथा तथा भ्रमणात् दृगनु For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy