SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६श अध्यायः सूत्रस्थानम् । ६८१ याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः। सा चिकित्सा विकाराणां कर्म तद्भिषजां मतम् ॥ १८ ॥ पुराणमिदमिनि। वल्मीकादीनामवयवोपचयकारणमाहाररसवद्वल्मीककीटोद्धतमृदप्यस्ति । तद्वद्वल्मीकोपचयेऽपि तदुद्धतमृदा मेलनेन पूर्ववल्मीकमृद्धिं प्राप्योत्तरावस्थामारभ्य पूर्वावस्थिकरूपेण नश्यतीति। तत्र कारणं नास्तुपलब्धाभावात् । घटादीनां विनाशकारणमवयविभागो न परावस्थारम्भकपूर्वावस्थाव्यहनाशे कारणमिति। एवञ्च प्राण्यप्राणिनां सव्वेषामुत्तरावस्थारम्भ-पूर्वावस्थानिष्कारण-विनाशयोः नियमहेखभावादयथादर्शनमभ्यनुशावचनं नाद्रियते। शरीरवत् सर्वासु व्यक्तिषु कालकृतावस्थान्तरदर्शनात् । प्राण्यप्राणिषु सव्यत्रैव प्रतिक्षणमवस्थान्तरदर्शनादेव च प्रतिक्षणमुत्तरोत्तरव्यूहारम्भाकारणपूर्वपूर्वव्यहनाशप्रवन्धः । कचिद्विनाशकारणानुपलब्धः कचिदुपलब्धेश्च नानकान्तः। इति ॥१७॥ गङ्गाधरः---इत्येवं भावानां स्वभावोपरमे प्रतिहेतु निरोध कारणाभावस्य युक्तिमुक्त्वा स्वभावोपरमे कम्म चिकित्साप्रामृतस्य किमिति ? प्रश्नोत्तरमाहयाभिरित्यादि। विषमधातूनां प्रतिक्षणं विषमा धातव उत्तरावस्थां विषमधातुकामारभ्य नश्यन्ति । इत्येवं विषमधातुप्रवन्धे शरीरे याभिः क्रियाभिस्ते विषमा धातवः समा जायन्ते सा क्रिया विकाराणां विषमधातूनां चिकित्सा। तदेव चिकित्साक्रिया भिपजां कर्म मतम् । एतेन भंपजैविषमान् धातून् कान् समीकुरुते भिषगित्यस्याप्युत्तरमुक्तं भवति । विकाराणामिति वचनेन प्रतिक्षणं चक्रपाणिः--एतेन विषमे धातो साम्यं संस्कार आधीयतामित्येवरूपापि चिकित्सा निरस्ता मन्तम्या, एवं व्यवस्थिते पूर्वाक्षिप्त चिकित्सितं समादधति याभिरित्यादि।-“सा चिकित्सा" इत्यनेन "का वा चिकित्सा" इत्याक्षेपः परिहतः । “कर्म तद्" इत्यनेन प्रथमोहिर आक्षेपः परिहृतः। “इत्यर्थं क्रियते क्रिया इत्यनेन "किमर्थं वा" इत्याक्षेपः परिहृतः। “कान् समीकुरुते" इत्याक्षेपस्तु, “समैस्तु हेतुभिर्यस्माद " इत्यादिना परिहतः । विषमेषु धातुषु याभिः क्रियाभिः समा धातवो जन्यन्ते सा चिकित्सा ; एवं मन्यते यद्यपि धातुवैषम्यं विनश्वरम्, तथापि विनश्यदपि तद्धातुवैषम्यं स्वकारय विषममेव धातुमारभते, एवं सोऽप्यपरं विषममिति न धातुवैषम्यसन्ताननिवृत्तिर्धातुसाम्यजनकत्वहेतुं विना ; यदा तु धातुसाम्यहेतुरुपयुक्तो भवति, तदा तेन सहितं वैषम्यसन्ततिरहितमपि कारणं सममेव धातुसन्तानमारभते, यथा मुद्गरप्रहारसहितो घटपरमाणुसन्तानो विसदृशं कपालसन्तानमारभते ॥१८॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy