SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६श अध्यायः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । I स्नेह स्वेने शुद्धौ रोगाः संसर्ज्जने च ये जायन्तेऽमार्गविहिते तेषां सिद्धिषु साधनम् ॥ १२ ॥ जायन्ते हेतुवैषम्याद्विषमा देहधातवः । हेतुसाम्यात् समास्तेषां स्वभावोपरमः सदा ॥ १३ ॥ प्रवृत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम् । केचित् तत्रापि मन्यन्ते हेतु हेतोरवर्त्तनम् ॥ १४ ॥ ६७३ गङ्गाधरः - अथ स्नेहादौ क्रियमाणे यदि समयोगाभावादयोगादितो रोगा अन्ये भवन्ति तत्र किं कर्त्तव्यमिति ? अत आह स्नेहन इत्यादि । स्नेहनादौ तथा शुद्ध तथा सम्यग्योगे पेयादिसंसर्ज्जने चामागविहिते यथावन्मागविधानाभावेऽयोगातियोगादौ सति ये रोगा जायन्ते तेषां साधनं सिद्धिषु सिद्धिस्थाने वक्ष्यत इति शेषः ।। १२ ।। गङ्गाधरः- नन्वेवं चेत् कुतो देहधातूनां वैषम्यं भवति, कुतो वा साम्यं, तयोश्च साम्यवैषम्ययोरनुवृत्तिः कुतः स्यात् कुतो वा निवृत्तिः ? इत्याशङ्कायामाह जायन्त इत्यादि । देहधातवो देहस्य धारका ये भावास्ते । हेतुवैषम्यात तेषामुत्पत्तौ स्थितौ च हेतूनां वैपम्याद बुद्धिहान्यन्यतरस्माद्विषमा जायन्ते । तथा देहधातूनां ये हेतवस्तेषां साम्यात् वृद्धिहासव्यतिरेकावस्थायामवस्थानात् ते देहधातवः समा जायन्ते । तयोदेहधातुसाम्यवैषम्ययोः सदैवाविरतं स्वभावोपरमः । स्वभावस्य स्वस्य धर्मस्य स्वस्य रूपस्य चोपरमो नाशो भवति । तत्र भावानां स्वस्वधर्माणां स्वस्वरूपाणाञ्च सदैवाविरतप्रवृत्तौ हेतुरस्ति । सदैवाविरतनिरोधे 1 पूर्व्वमयोगे हेतुभूतः, तं परिहरान्नति शिक्षयति । अमार्गविहितेऽविधिविहिते; साधनमित्यत्र वक्ष्यत इति शेषः ॥ ११--१२ ॥ For Private and Personal Use Only चक्रपाणिः - सम्प्रति यदेतत् सिद्धौ वक्ष्यमाणं तदनुषङ्गेण च सर्व्वभेषजानामेव क्षणभङ्गभावे पक्षेऽपि गमकत्वं प्रतिपादयितुं प्रकरणमारभते जायन्त इत्यादि । तेषामिति विषमाणां धातूनां समानाञ्च, स्वभावाद विनाशकारिणां निरपेक्षादपरमो विनाशः स्वभापोपरमः, सदेत्यविलम्बेन तेनोत्पन्नमात्र एव विनश्यतीत्यर्थः ॥ १३ ॥ चक्रपाणिः - अत्रैवार्थे उपपत्तिमाह-प्रवृत्तीत्यादि । प्रवृत्तिहेतुरुत्पत्तिहेतुर्भावानामस्ति, निरोधे विनाशे हेतुर्भावानां कारणं नास्ति, यस्मात् सर्व्व एव भावाः प्रदीपार्चिर्वदुत्पत्तौ कारणापेक्षिणः, विनाशे तु द्वितीयक्षणाविद्यमानत्वलक्षणे सहजसिद्धत्वे न हेत्वन्तरमपेक्षन्ते यतः न स्वाभाविक "
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy