SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः । सूत्रस्थानम् । तत्रातियोगायोगनिमित्तानिमानुपद्रवान् विद्यात् । आध्मानं परिकर्तिका परिस्रावो हृदयोपशरणमङ्गग्रहो जीवादानं विभ्रंशः स्तम्भः क्लम उपद्रवा इति ॥ १३॥ योगेन तु खल्वेनं छतिवन्तमभिसमीक्ष्य सुप्रचालितपाणिपादास्यं मुहूर्तमाश्वास्य स्नैहिकवरेचनिकोपशमनीयानां धूमानामन्यतमं सामर्थ्यतः पाययित्वा पुनरेवोदकमुपस्पर्शयेत् । उपस्पृष्टोदकञ्चैनं निवातमगारमनुप्रवेश्य संवेश्य चानुशिष्यात --उच्चैर्भाष्यमत्यासनमतिस्थानमतिचंक्रमणं क्रोधशोकहिमातपावश्यायातिप्रवातान, यानयानं ग्राम्यधर्ममखपनं निशि, दिवा स्वप्नम, विरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरु गङ्गाधरः-तत्रेत्यादि। तत्रातियोगायोगनिमित्तानुपद्रवानिमान् विद्यात् । आध्मानमित्यादि। आध्मानं सवेदनमुदरपूर्णता। परिकत्तिका गुदे कर्त्तनवत् पीड़ा। परिस्रावो मुखस्य वयने, गुदस्य विरेचने। हृदयोपशरणम् उपद्रवणम् । अङ्गग्रहोऽङ्गवेदना। जीवादानं जीवरक्त निर्गमः। विभ्रंशः शरीरस्य स्तम्भश्च । क्लमश्चेत्युपद्रवा व्यापदः सिद्धिस्थाने विस्तरेण वक्ष्यन्ते ॥१३॥ गङ्गाधरः-तत्सिद्धयश्च अथात्राह-योगेनेत्यादि । सम्यग्योगेन च्छदित. वन्तमेनं पुरुषमभिसमीक्ष्य सुप्रक्षालितपाणिपादास्यं मुहूर्त्तमाश्वास्य विश्राम्य स्नैहिकधूमादीनामन्यतमं धूमं सामर्थ्यतः पाययिखा पुनरेवोदकमुपस्पर्शयेत् मुखादीनि प्रक्षालयेत्, न तु स्नापयेत् । ___ उपस्पृष्टेत्यादि। उपस्पृष्टोदकञ्चैनं वमितं पुरुषं निवातमगारं गृहमनुप्रवेश्य संवेश्य च शाययिखानुशिष्यात्। उच्चैर्भाष्यादीन् निशि चास्वपनं कर्षार्थः, तथाहि वक्ष्यति सिद्धौ-"पेयां विलेपीम्” इत्यादि। तत्रातियोगेत्यादी आध्मानादयः शोधनसिद्धौ "बहुदोषस्य रुक्षस्य" इत्यादिना ग्रन्थेन प्रपन्चेन वक्तव्याः, अतस्तत्रैषां योगातियोगजन्यो यश्चायोगजन्यः स स्फुटो ज्ञेयः ॥ १२-१३॥ चक्रपाणिः-स्नैहिकधूमपानविकल्पः पुरुषप्रकृत्यपेक्षः, अत एव सामर्थ्यत इत्युक्त यद - For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy