________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५२
चरक-संहिता।
पकल्पनीय बुद्धेः। तस्मादुभयमेतद् यथावदुपदेष्यामः । सम्यक् प्रयोगं चौषधानां व्यापन्नानाञ्च व्यापत्साधनानि सिद्धिषत्तर कालम् ॥४॥
इदानीं तावत् सम्भारान् विविधानपि समासेनोपदेक्ष्यामः। तद् यथा-दृढ़ निवातं प्रवातैकदेशं सुखप्रविचारमनुपत्यकं मनसोऽवस्थान्तराणि शोकभयलोभमोहक्रोधेष्येच्छाव पसुखदुःखविषादादीनि, ब्राह्मादिसात्त्विकराजसतामसवानि च । वातादिदपितवादषितवरजस्तमो. दुष्टवादुष्टखानि च। प्रकृतेरवस्थान्तराणि समपित्तानिलकफादिलेऽपि तल्लक्षणसद्भावासद्भावक्षयादीनि । वयसोऽवस्थान्तराणि वाल्यादीनि तेषां ताद्रूप्येण सद्भावासद्भावादीनि। एतानि दोषादीनामवस्थान्तराणि खौषधप्रयोगेऽपेक्ष्यन्ते । तस्मात् खल्वल्पबुद्धर्जनस्य बुद्धदोषभेषजादीनां मूक्ष्मावस्थान्तरैरा कुलीकरणादेतद्वक्ष्यमाणमुभयं यथावदुपदेक्ष्यामः। किमुभयमिति ? अत आह–सम्यगित्यादि। एकमौषधानां सम्मक प्रयोगं व्यापनानाञ्चौषधानां व्यापत्साधनानीति द्वितीयं सिद्धिषु सिद्धिस्थानेऽतः परमुपदेश्याम इति ॥४॥
गङ्गाधरः- इदानीमिहाध्याये संशोधनमभिप्रेत्य सम्यग् योगे प्रतिभोगार्थान व्यापत्सु व्यापप्रतिकारार्थांश्च तावत् सम्भारान् विविधानपि समासेन सङ्क्षपेणोपदेक्ष्यामः। तद्यथेत्यादि। संशोधन पाययितुकामो भिषक् तावत् पूर्व वास्तुविद्याकुशलं जनं प्रशस्तं गृहमेवोपकल्पयेत् । वास्तुविद्याकुशलो गृहकारो यदगृहमुपकल्पेत तं गृहकारं वैद्यो दृढ़मित्येवमादुक्तं गृहमुपकल्पयेत् । दृढं निवातमपि प्रवातैकदेशं तस्मिन् वायुने सञ्चरेदेकदेशे तु प्रकृष्टवायुः सञ्चरेत्। सुखप्रविचारं सुखेन प्रकर्षण सञ्चरणयोग्यम् ; गमनागमनप्रवेशादिषु सुखम् । अनुपत्यकम्-अन्यस्य महतो गृहपर्वतादेरुपत्यकासामीप्यं नास्ति त्वेन बोद्धव्याः ; वयोभेदास्तु बाल्ययौवनवार्द्धक्याद्यवस्थाकृततदवान्तरभेदाः ; एतानि दोषाधवस्थान्तराणि चिकित्साप्रयोगे यथा यथापेक्ष्यन्ते, तदुदाहरणं शास्त्रेऽनुसरणीयम्; इह लिख्यमानन्तु विम्तरत्वं ग्रन्थस्यावहतीति नोक्तम् ; उभयमेतदुत्तरकालं सिाद्धपूपदेक्ष्याम इति योजना ॥ ४ ॥
चक्रपाणिः-विविधानपीत्यपिशब्दः समासेनापीत्येवंरूपो ज्ञेयः, तेन गृहादयोऽपि विस्तरेणोच्यन्ते, संग्रहणीयादयश्च समासेनेति द्वयमपि सुस्थ स्यात् ; यदि वा, द्विविधानपीति
For Private and Personal Use Only