SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४२ चरक-संहिता। । स्वेदाध्याय, दीप्त रधूमैरङ्गारैस्तां कर्पू पूरयेत् ततः । तस्यामुपरि शय्यायां वपन् विद्यति ना सुखम्॥२२॥३३॥ अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम् । घनभित्तिं कुटीं कृत्वा कुष्ठादेवः संप्रलेपयेत् ॥ कुटीमध्ये भिषक शय्यां वास्तीर्णाञ्चोपकल्पयेत् । प्रावाराजिनकोषेय-कुत्थकम्बलगोलकैः ॥ स हण्डिकाभिरङ्गार-पूर्णाभिस्ताश्च सर्वशः। परिवार्यान्तरारोहेदभ्यक्तः विद्यते सुखम् ॥ २४ ॥ य एवाश्मघनस्वेद-विविभूमौ स एव तु । प्रशस्तायां निवातायां समायामुपदिश्यते ॥ २५ ॥ दीप्तरधूमैरङ्गारैः पूरयेत् तत उपरि खदादिशय्यां स्थापयिखा तत्र स्वपन शयानः पुमान् सुखं स्विद्यतीति कपूस्वेदः (८) ॥२२॥२३॥ गङ्गाधरः-अथ कुटोस्वेदविधानमाह-अनत्युत्सेधेत्यादि। अनतीत्यनतिशयपरिसरामनतिशयोत्सेधां वृत्ताकारां वत्त लाकारामलोचनां गवाक्षरहितां घनभित्तिं निविड़भित्तिं कुटी स्वल्पगृहं कृखा तस्या अभ्यन्तरे कुष्ठादप्रर्दशभिरुष्णवीय्यद्रेव्यैः सम्प्रलेपयेत्। तत्प्रलिप्ते कुटीमध्ये स्वास्तीणां शय्यां भिषगुपकल्पयेत् । प्रावारादिभिरङ्गारपूर्णा भिवतीभिर्हण्डिकाभिश्च तां शय्यां परिवाय्ये स्नेहाभ्यक्तः पुमान् तदन्तरा तन्मध्यमारोहेन । तेन सुख विद्यति । इति कुटीस्वेदः (९) ॥ २४ ॥ गङ्गाधरः-अथ भूस्वेदविधानमाह--य एवेत्यादि। शयानस्य प्रमाणेनेत्यादिना य उक्तोऽश्मघनस्वेदविधिः स एव तु विधिः प्रशस्तायां समायां भ्रमौ स्वल्पप्रमाणोच्छायविस्ताराम् ; अलोचनां निर्जालकां, कुष्टादैयरित्यत्रादिशब्दः प्रकारवचनः, तेन उष्णसुगन्धिद्रव्यैरिति स्यात् ; हसन्तिकाऽङ्गारधानिका, परिवायेति हसन्तिकाभिरित्यनेन सम्बध्यते। तामिति उपकल्पितशय्यां कुटीम् आरोहेदिति सम्बन्धः ॥ २२–२५॥ * “स हण्डिकाभिः" इत्यत्र “हसन्तिकाभिः” इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy