SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४श अध्यायः www.kobatirth.org सूत्रस्थानम् । गोधूमशकलेश्चूणैर्यवानामम्लसंयुतैः । सस्नेह करावल रुपनाहः प्रशस्यते ॥ गन्धैः सुरायाः किन जीवन्त्या शतपुष्पया । उमया कुष्ठतैलाभ्यां युक्तया चोपनाहयेत् ॥ चर्मभिश्चापनद्धव्यः सलोमभिरप्रतिभिः । उपवीय्यैरलाभ तु कौशेय । विकशाटकः ॥ ८० Acharya Shri Kailassagarsuri Gyanmandir दशादिविभागज्ञः । न केवलजलकोटस्वेदः । कोष्टान्तरञ्चाह - स्वेदनार्थमित्यादि । घृतादीनां कोष्ठांश्च स्वेदनार्थं कारयेदिति । ग्राम्यमांसादिकाथेन पकघृताद्यन्यतमकोटं वाते । वरुणादिकाथे पकघृताद्यन्यतम कोष्ठं इलैष्मिके । भूतीकादिकाथे पकघृतायन्यतमकोष्टं वातश्लैष्मिके कारयेदिति ॥ १३ ॥ । गङ्गाधरः-- अथापरस्वेदद्रव्याण्याह - गोधूमेत्यादि । गोधूमशक लैगधूमानां सूक्ष्मसूक्ष्मखण्डेयेवानां चूर्णरम्लकाञ्जिकादियुक्तः सस्नेहैः सकिण्वैमेय किट्टसहितैरनुष्णैरुपनाहः स्वं दार्थ वहलमुपलेपं कृत्वा बन्धनं प्रशस्यत इति वातिके । कफे त्वपरञ्चाह—गन्धैरित्यादि । गन्धैः सुगन्धिद्रव्यैश्चन्दनागुरुपत्रादिभिः सुराकिन युक्तया जीवन्त्या शतपुष्पया च कफे उपनाहयेत् । वातकफे तु कुष्ठतैलाभ्यां युक्तया तूमया चोपनाहयेत् । बहलमुष्णं लेपयित्वा वनीयात् । इति । 1 अनग्निसम्बन्धन स्वदे प्रलेपद्रव्याण्युक्तत्वात्र बन्धनद्रव्याण्याह - चम्प्रेभिरित्यादि । अपूतिभिः पूतिगन्धवज्जितशुष्कै चभिः सलोमभिरुष्णवीर्य्यगधूमादिना वहलप्रलेपं दत्वोपनद्धव्यः बन्धनीयः । ईदृशचर्म्मणोऽलाभे तु कौषियशाटकैः क्रिमिकीटकृत कोषसम्भव सूत्रनिम्मितवस्त्रे रथवाविकशाटकैः कम्बलैबन्धनीय इति । एत एवेति नाड़ीस्वेदोक्तास्त्रयोऽपि, जलकोष्ठोऽवगाहार्थकृतं महज्जलपात्रम्, एवं घृत क्षीरतैलकोष्टाश्च व्याख्याताः ॥ ९-१३॥ चक्रपाणिः -- गोधूमशकलैर्गोधूमचूर्णैः, किण्वः सुरावीजम् । उपनाहो बहलं लेपं दत्त्वा चर्मादिभिरावृत्य व्याधियुक्तस्याङ्गबन्धनम् उपनाहः प्रशस्यते इत्यत्र उपनाहोऽनग्निस्वेदो ग्राह्यः । गन्धैश्च सुगन्धिद्रव्यैरुपनाहो बन्धनीयः; उष्णवीय्यैरिति उष्णवीर्य्यानूपादिप्राणिप्रभवैः, आविक शाटकः कम्बलः । For Private and Personal Use Only ६३३
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy