SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३० चरक-संहिता। [स्वेदाध्यायः सङ्कोचायामशलेषु स्तम्भगौरवसुप्तिषु ।। सर्वाङ्गषु विकारेषु स्वेदनं हितमुच्यते ॥ ८ ॥ तिलमाषकुलत्थाम्ल-घृततैलामिषौदनैः। पायसैः कृशरैमासैः पिण्डस्वेदं प्रयोजयेत् ॥ गोखरोष्ट्रवराहाश्व-शकृद्भिः सतुषैर्यवैः। सिकतापांशुपाषाण-करीषायसपूटकैः ॥ श्लैष्मिकान् स्वेदयेत् पूवैातिकान समुपाचरेत् ॥ ६ ॥ रूपासु। आमेष्वपकान्नदोपजविसूचिकादिषु। वातकण्टके गुल्फाश्रितवातरोगविशेषे। सङ्कोचे वातव्याधिविशेष शरीराकुश्चनकारिणि वातरोगे। आयामोऽन्तगयामो वातरोगः। शूलं गुल्मादिजं तेषु । स्तम्भः शरीरचालनशक्तिनाशिरोगः। गौरवं देहस्य स्तम्भकृतमेव तेनालाघववचनं न पुनरुक्तम । सुप्तिः स्पर्शाज्ञानम् । सर्लाङ्गेषु विकारेषु ज्वरादिषु वातश्लेष्मादिषु स्वेदनं हितमुच्यते । इति ॥८॥ गङ्गाधरः- अथ स्वेदद्रव्याण्याह तिलेत्यादि। तिलादिभिः स्वेदो वाते स्निग्धस्वेदः। अन्नं भक्तमोदनः पुनरामिपरसकृतः। कृशरस्तिलमाषकृता यवागूः। पिण्डस्वेदम् एतेषां प्रत्येकं पिण्डाकारं कृखा स्वेदं प्रयोजयेदिति स्निग्धस्वेदद्रव्याणि। - अथ रुक्षस्वेदद्रव्याण्याह-गोखरेत्यादि। गवादीनां शकृद्भिराद्रः सतुषयवैः पिष्टैः। सिकतादीनां पूटकैः पोट्टलीकृतः। करीषं शुष्कगोमयादिकमतो न पुनरुक्तम् । आयसं क्षुद्रीकृतलौहम् । एभिगोखरादीनां शकृदादिभिः श्लैष्मिखल्ली हस्तपदावमोटनम्, वातकण्टको गुल्फाश्रितो वातः, अलायव इति पूर्वमुक्तोऽपि पुनगौरववचनमङ्गानां गुरुतरत्वप्रतिपादनार्थम्, अलाधववचनन्तु लाधवप्रतिषेधमात्रप्रयोजनं नातिगुरुत्व बते, यतः, सर्वत्र नञ् विरुद्ध न वर्तते, यतः, “अरुक्षमनभिष्यान्द त्वासीनप्रचलायितम्' इत्यत्र न ह्यरुक्षशब्देन स्निग्धत्वमभिप्रतम्, किं तर्हि ? रुक्षताप्रतिषेधमात्रमेव ॥ ८॥ चक्रपाणिः-वक्ष्यमाणानां सङ्करादिस्वेदानां द्रव्याच्याह--तिलमाषेत्यादि। पिण्डरूपः स्वेदः पिण्डस्वदः। करीषः शुष्कगोमयः ; आयसः अयोविकारः, स चेह पुटकरणयोग्यो बोद्धव्यः ; पूर्वैरिति तिलमाषादिभिः। यथास्वमित्यनेन तिलमाषादयो वाते, गोखरादिग्रन्थोक्ताश्च श्लेष्मणि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy