SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [ दीर्घजीवितीयः खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः। सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनम् ॥ २०॥ गङ्गाधरः-ननु तत्र सर्व प्रतिष्ठितमिति यदुक्तं तत्सर्व किन्तावदित्याकाङ्क्षायां सत्त्वात्मशरीरसमुदायस्य यद्यन्मयत्वं प्रकृतिभूततत्तत्कारण तावद्वक्तु प्रधान कारणेषु द्रव्यमादौ निर्दिशति न तु पूचौदिष्टसामान्यविशेषादिक्रमेण । खादीनीत्यादि।-सत्यप्यात्मनः सर्वेभ्यः प्राधान्ये श्रोत्रादीन्द्रिययोगेणैव चैतन्यहेतुखादिन्द्रियाणां भूतमयत्वेनादौ भूतानां निर्दे शस्ततश्चात्मनस्ततश्च मनसोऽप्यात्मनः शरीरपरिग्रहे मनःक्रियाया हेतुखात् । कालदिशोः सव्र्वत्रैव परिणामि-समवायि-हेतुखेन पश्चानिर्देशः कृतः। खादीनीति कतिधापुरुषीये बक्ष्यन्ते-“महाभूतानि खौं वायुरग्निरापः क्षितिस्तथा। शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तद्गुणाः" इत्यनेन तत्रात्यनभिव्यक्तशब्दतन्मात्रमत्राकाश विवक्षितं न खेतदप्रतिघातस्वभावमाकाशम् । क्रमेण स्थूलाव्यक्तस्पर्शतन्मात्रचलस्वभावो वायुः। 'मिलितरक्तश्वेतकृष्णसाधारणभूतम् अव्यक्तरूपतन्मात्रमयोष्णास्वभाव तेजोऽग्निः। ततः स्थूलाव्यक्तरसतन्मात्रद्रवत्वस्वभावा आपः। अव्यक्तगन्धतन्मात्रमयी खरवस्वभावा क्षितिः। इत्यत्यनभिव्यक्तशब्द इवाकाशादिषु पञ्चस्वेव श्लक्ष्णखरवादयो गुणा अत्यनभिव्यक्ता एव सन्ति ये पाश्चमौक्तिकेषु व्यक्ता भवन्ति । अत्यनभिव्यक्तत्वेऽपि शब्दस्याफाशगुणवेनोपदेशः सगुणमेव द्रव्यमुत्पद्यते न तु निगुणमिति ज्ञापनार्थम् । वैशेषिके तु नाकाशस्य शब्दगणोऽत्यनभिव्यक्तवादुक्त इति। पूर्वपूर्वभूतानुपविष्टोत्तरोत्तरभूतेषु वाय्वादिषु स्थूलेष्वेषां प्रकृतिभूतहेतुत्वात् तानि पूर्वपूर्वानुप्रविष्टानि वायवादीनि चखारि भूतान्यत्र न वाय्वादिशब्दवाच्यानि। आत्मा चेतनाधातुः संसारसंसवनादिस्वभावो निष्क्रियो निगुणः सत्त्वांदियोगेन चैतन्यहेतुः प्रकाशरूपोऽव्यक्ताख्यः । मनवाणु सर्बेन्द्रियचेष्टाहेतुभूतं स्वार्थात्मसम्पदायत्तचेष्टात्तुस्वभावं सत्तुप्रधानत्रिगुणविकारात्मकमूर्त्तिमत्। कालश्चक्रवदभ्रमणेनाविरतगमनशीलवस्वभावः सर्वभावपरिणतिहेतुः। सुश्रतेऽप्युक्तं- कालो नाम भगवान् स्वयम्भूरनादि चक्रपाणिः-सम्प्रति गुणाभिधानं क्रमप्राप्तमुल्लङ्घय द्रव्याणि निर्दिशता गुणाधारतया द्रव्यस्य प्राधान्यमुच्यते -सूत्र च सामान्यञ्च विशेषल्चेत्यादौ गुणानादौ निर्दिशता गुणानामेव रसादीनां प्रायः शास्त्र कार्मकत्वमुपदय ते, अत एवान यभद्रकाप्यीये मधुरादिरसद्वारा सर्वगुणान् कर्माणि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy