SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६२० www.kobatirth.org चरक संहिता | [ स्नेहाध्यायः द्राक्षामलकयूषाभ्यां दध्ना चाम्लेन साधयेत् । व्योषगर्भ भिषक स्नेहं पीत्वा स्निह्यति तन्नरः ॥ यवकोलकुलत्थानां रसाः नीरं सुरा दधि । चीरसर्पिश्च तत्सिद्धं स्नेहनीयं घृतोत्तमम् ॥ तैलमज्जवसासर्पिर्बदर त्रिफलारसैः । योनिशुक्र प्रदोषेषु साधयित्वा प्रयोजयेत् ॥ ३६ ॥ गृह्णात्यम्बु यथा वस्त्र' प्रस्रवत्यधिकं यथा । तथाग्निर्जीर्यति स्नेहं तथा स्रवति चाधिकम + ॥ - Acharya Shri Kailassagarsuri Gyanmandir गङ्गाधरः- अथापरविचारणामाह - द्राक्षेत्यादि । द्राक्षायूषेणामलकयूषेण दना चाम्लेन मिलिला चतुर्गुणेन व्योषगर्भ त्रिकटुकं पादिकं कल्कीकृत्य स्नेह यथार्ह घृतादिकं साधयेत् । तत् पीला नरः स्त्रियति । अपरचाह - यवेत्यादि । यवादीनां प्रत्येकं रसः । बहुवचनात् त्रयो रसाः काथाः । क्षीरं सुरा दधि चेति त्रयमिति षड्द्रवद्रव्याणि प्रत्येकम् । क्षीरोत्थसर्पिः समानानि । कल्कहीनमिदं सिद्धं स्नेहनीयं घृतोत्तमम् । तैलेत्यादि । तैलादिचतुःस्नेहं व्यस्तं समस्तं वा यथार्हमेकवद्भावेन समस्तमेव वा बदरादीनां चतुण रसंश्चतुभिः प्रत्येकं स्नेहसमानैर्मिलित्वा चतुर्गुणैरकल्कं साधयित्वा योनिशुक्रप्रदोषेषु स्नेहनार्थं प्रयोजयेदिति ॥ ३६ ॥ गङ्गाधरः-- सर्व्वान् प्रश्नानुक्त्वा स्नेहसेवने मात्राधिक्यादिदो पानाह गृह्णातीत्यादि । यथा वस्त्रं सममात्रमम्बु यथावद्गृह्णाति तत्राधिकमम्बु यथा प्रस्रवति तथाग्निः सममात्रं स्नेहं जीय्येति, तत्राधिकं स्नेहं स्रवति । हरीतक्या तथा त्रिफलया चेति पृथग्योजनीयं; पिप्पल्यादिसिद्धस्नेहश्व कुष्टादिषु यथासंख्यमिति केचित् । यूपशब्दः क्वाथवचनः, व्योषगर्भे व्योषकल्कम्, अत्र त्रिभिर्द्रव्यैर्मिलित्वा चातुर्गुण्यम् । यवकोलादौ पड् द्रव्याणि स्नेहसमानि, क्षारो यवक्षारः कल्कः । तैलमज्जेत्यादि । चतुःस्नेहो - कल्क एव । तैलमज्जवसासर्पिरित्येय वद् भावात् द्वितीयान्तः प्रयोगः ॥ ३५॥३६ ॥ चक्रपाणिः - सम्प्रति स्नेह उपयुक्तो यथा शरीरं संस्नेह्याधिको दृश्यते, तदाह- गृह्णाती त्यादि । तच्च शिष्येणाध्यायादावपृष्टमपि शिष्य हिततयाभिधीयते ; यथाग्नीत्यग्न्यनधिक इत्यर्थः । नन्वग्न्यधिकश्चेत् स्रवति तदवधि च स्नेहलक्षणमुक्त, यदुच्यते - " अधस्तात् स्नेह* क्षारः सर्पिश्च इति पाठान्तरम् । + यथाग्निजीति स्नेहस्तथा स्रवति चाधिकः । इति चकः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy