SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३श अध्यायः! सूत्रस्थानम् । एकाहोपरतस्तद्वद् भुत्तवा प्रच्छर्दनं पिबत् । स्यात्तु संशोधनार्थाय * वृत्तिः स्नेह विरिक्तवत् ॥३२॥ स्नेहद्विषः स्नहनित्या ऋदुकोष्ठाश्च ये नराः। क्लेशासहा मद्यनित्यास्तेषामिष्टा विचारणाः ॥ लावतैत्तिरिमायूर-हंसवाराहकोकु टाः । गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिताः ॥ यवकालकुलत्थाश्च स्नेहाः सगुडशर्कराः। दाडिमं दधि सव्योषं रससंयोगसंग्रहः ॥ ३३॥ पि। तत्र तद्वद्वमुष्णश्च मांसस्य रसौदनं भुक्त्वा एकाहोपरतः एकाह विरम्य प्रच्छद्देनं वमनमौषवं पिवेत्। एवंप्रकारेण वमनानन्तरं पुनरेकाई विश्रम्य त्रिदिनानन्तरं पुनस्तं स्नेहं पिबेदिति तात्पर्यम् । इति व्यापत्सिद्धिमुक्त्वा “अच्छे संशोरने चैव स्नेह का दृत्तिरिष्यते” इति प्रश्नस्योत्तरमाह -स्यात् खित्यादि । संशोधनार्थाय खल्वच्छे स्नेह पीते विरिक्तवत्तिः स्यात् । विरिक्तस्य वृत्तिर्वक्ष्यते ॥३२॥ गङ्गाधरः--इति वृत्तिमुक्त्वा "विचारणा केषु योज्याः" इति प्रश्नस्योत्तरमाह-स्नेह द्विप इत्यादि । स्नेह द्विडादिषु विचारणा इष्टा भवन्ति । “विधिना केन तत् प्रभो विचारणा योज्याः” इति प्रश्नस्योत्तरमाह -- लावेत्यादि । ओदनादयो या विचारणा उक्तास्तासु मध्ये मांसरसा लावादीनां मांसरसाः स्नेहनक्रियायां हिताः। (वभ्र नकुलः)। एषां रसानां संस्कारद्रव्याण्याह-यवेत्यादि । रस वमने स्नेहवृत्तिमाह--एकेत्यादि । एकाहोपरतः स्नेहादिति योजना, तद्वदिति स्नेहवद् द्रवमुष्णञ्च रसौदनं स्नेहोपरमदिवस एव।। __ संशमनविधिमाह–स्यात् वित्यादि। असंशोधनार्थीये संशमने, वृत्तिरुपचारः, विरिक्तवदित्यनागतावेक्षणेनोपकल्पनीयवक्ष्यमाणं सम्यगविरिक्त तैलम्' इत्यादिग्रन्थप्रतिपादनीयमुपचारमाह, न तु पेयादिक्रमम्। यद्यपि वमनोक्ता एव तत्रोच्चैर्भाष्यादयो विरेचनवृत्तावप्यतिदिशास्तथापीह वमनविधिं परित्यज्य विरेचनविध्यतिदेशो धूमपानप्रतिषेधार्थः, विरेचने हि तत्र 'धूमपानवर्जम्" इति कृतं, स्नेहपाने च धूमपानं निषिद्ध मात्राशीतीये,--"न मद्य-दुग्धे पीत्वा च न स्नेहम्” इत्यादिना ॥ ३२ ॥ चक्रपाणिः-विचारणाविषयमाह--स्नेहद्विप इत्यादिना। लानादिरसानामुक्तानां संस्कारम् * स्यात्त्वसंशोधनार्थीय इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy