SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३श अध्यायः सूत्रस्थानम् । ६०५ ताप्तां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति । प्रभूतस्नेह नित्या ये क्षुत्पिपासासहा नराः॥ पावकश्चोत्तमबलो येषां ये चोत्तमा बले । गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये॥ उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च । पिबेयुरुत्तमा मात्रां तस्याः पाने गुणान् शृणु ॥ विकारान् शमयत्येषा शीघ्र सम्यक्प्रयोजिता। दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी। वल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम् ॥ १४ ॥ अरुष्करफोटपिडका-कण्डूपामाभिरर्दिताः। कुठिनश्च प्रमीढ़ाश्च वातशोणितिकाश्च ये॥ पुरुषोऽयं कस्मिन् देशे जातो वसति वा किंप्रकृतिकः किंसारः किंवयाः किमग्निः किंबलः किंकोष्ठ इत्येवंप्रकारेण यो जानाति पुरुपमिति । __ अथैपां मात्राणां का मात्रा केषु प्रयोक्तव्या इति प्रश्नस्योत्तरमाह-इति तिस्र इत्यादि। प्रभूतस्नेह नित्या नित्यं प्रचुरस्नेहसात्म्या ये ते तावत् स्नेहमुपसेवितु प्रभवन्ति । अताऽन्ये च ये क्षुत्पिपासासहाः स्युस्तेऽपि प्रभवन्ति । तेभ्योऽन्येषां येषां पावको जाठराग्निरुत्तमबलस्तेऽपि चोत्तमा मात्रां पातु प्रभवन्ति । तेभ्योऽन्ये च ये वले भवन्त्युत्तमास्तेऽपि प्रभवन्ति। गुल्मिप्रभृतयश्च व्याधिवलात् प्रभवन्तीत्यत एते स्नेहस्योत्तमा मात्रां पिबेयुः। तस्या उत्तममात्रायाः पाने गुणान् शृणु। नद यथा--विकारानित्यादि शरीरेन्द्रियचेतसामित्यन्तेन ॥१३॥१४॥ गङ्गाधरः-अथ मध्यममात्राह पुरुषमाह-अरुप्केत्यादि । अरुष्कोऽरु षिका परिणामिनी मात्रा क्रियते, तदा तदहराहारो न कर्त्तव्यः, अत एवैतत्पानं पुरुषविशेषविषयकथने उक्त “क्षुत्पिपासासहा नरा:" इति । प्रभूतस्नेहनित्याः प्रभूतस्नेहसात्म्याः , सम्यगयोजितेतिवचनेन महाव्यापत्तित्वमस्याः सूचयति। सर्वमार्गाः कोष्टसान्धमम्म शाखाः, पुनर्नवकरी निःशेषदोषहरत्वेन ।। १३३१४ ॥ चक्रपाणिः-अरुप्केत्यादि मध्यममात्रागुणः, अभएकाहरुचिका । शोधनार्थ इति शोधनार्थ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy