SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३श अध्यायः सूत्रस्थानम् । प्रथमकल्पविचारणा भवतीति चतुःषष्टिरुक्ता। रसानां षष्णां समासव्यासयोगेन त्रिपष्टिविधवमात्रेयभद्रकाप्यीये वक्ष्यते। सुश्रुते च रसभेदविकल्पे प्रोक्तः। तद यथा--यथाक्रमं प्रवृत्तानां द्विकेषु मधुरो रसः। पञ्चानुक्रमते योगानम्लश्चतुर एच च ॥ त्रीथानुगच्छति रसो लवणः कटुको द्वयम्। तिक्तः कपायमन्वेति ते द्विका दश पञ्च च ॥” तद्यथा--मधुराम्लो मधुरलवणो मधुरकटको मकरतिक्तो मघरकपायः। इत्येते पञ्चानुक्रान्ता यधरण। अम्ललवणोऽम्लकटकोऽम्लतितोऽम्लकगाय इत्येते चखारोऽनुक्रान्ता अम्लेन। लवणकटुको लवणतिक्तो लवणकपाय इत्येते त्रयोऽनुक्रान्ता लवणेन। कतिक्तः कदकपाय इति द्वावेतावनुक्रान्तो कटुकेन। तिक्तकषाय इत्येकएवानुक्रान्तस्तिक्तन। एते पञ्चदश दिकसंयोगा व्याख्याताः। त्रिकं वक्ष्यामः । “आनो प्रयुज्यमानस्तु मथुरो दश गच्छति । षड़म्लो लवणस्तस्माददन्वेकं रसः कटुः।।" तद्यथा-मधुरामललवणो मधराम्लकटुको मधु. राम्लतिक्तो मधुराम्लकपायो मधुरलवणकटुको मधुरलवणतिक्तो मधुरलवणकपायो अधुरकटुतिक्तो मधुरकटुकपायः मधुरतिक्तकशय एवमेते त्रिकसंयोगानां दशानामादौ मधुरः प्रयुज्यते। अम्ललवणकटुकोऽम्ललवणतिक्तोऽललवणकपायोऽलकटुतिक्तोऽम्लकटुकषायोऽम्लतिक्ततपाय एकोपां परणामादावम्लः प्रयुज्यते । लवण कटुलितो लवणकटुकपायो लवणतिक्तकपाय एवमेषां त्रयाणामादौ लवणः प्रयुज्यते। कटुतिक्तकपाय एवमेकस्यादौ कटुकः प्रयुज्यते। एवमेषा त्रिकसंयोगविंशतिर्व्याख्याताः। चतुष्कान वक्ष्यामः। “चतुष्करससंयोगान् मधुरो दश गच्छति। चतुरोऽम्लस्तु गच्छंच्च लवणस्त्वेकमेव तु ॥” तद्यथा मधराम्ललवणकटुको मधुरामललवणतिक्तो मधुराम्ललवणकषायो मधुराम्लकटुतिक्तो मधुगम्लकटुकषायो मधुराम्लतिक्तकषायो मधुरलवणकटुतिक्तो मधुरलवणकटुकपायो मधुरलवणतिक्तकषायो मधुरकटुकतिक्तकषायः, एवमेषां चतुष्कसंयोगानां दशानामादौ मधुर प्रयुज्यते । अम्ललवणकटुतिक्तोऽम्ललवणकटुकषायोऽम्ललवणतिक्तकषायोऽम्लकटुतिक्तकपायः, एवमेषां चतुणां चतुष्कसंयोगानामादावम्लः प्रयुज्यते । लवणकटुतिक्तकषाय एवमेकस्यादौ लवणः प्रयुज्यते । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy