SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६० चरक-संहिता। [ वातकलाकलीयः तत् श्रु त्वा काश्य वचो भगवान् पुनव्वसुरात्रेय उवाच, सर्व एव भवन्तः सम्यगाहुरन्यत्र कान्तिकवचनात् । सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रिय बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति। सम्यग्विाचरिता धर्मार्थकामा निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च रोधकस्तर्पकः श्लेषकश्चेति। तत्रामाशयस्थः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकखादृद्ध गतिखात् तेजसश्चन्द्र इवादित्यस्य । स चतुर्विधाहारस्याधारः । तेन च तत्रोदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसङ्घातः सुखजरश्च भवति । माधुर्यात् पिच्छिलखाच प्रक्लेदिखात् तथैव च। आमाशये सम्भवति श्लेष्मा मधुरशीतलः॥ स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणानुग्रहं करोति। उरःस्थस्तु विकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति । जिह्वामूलकण्ठस्थो जिह्वन्द्रियस्य सौम्यखात् सम्यग्रसशाने वत्तेते। शिरःस्थः स्नेहसन्तर्पणाधिकृतखादिन्द्रियाणामात्मवीव्येणानुग्रहं करोति। सन्धिस्थस्तु श्लेष्मा सव्वेसन्धिसंश्लेषात् सव्वं सन्ध्यनुग्रहं करोतीति ।” एषां कोपाकोपाभ्यां दाादी नि भवन्तीति ॥१६॥ गङ्गाधरः-तत् श्रवेत्यादि । काश्यपस्य तद्वचः श्रुखा भगवान् पुनर्वसुरात्रेय उवाच। यदुवाच तदाह-सर्व एवेत्यादि। भगवन्तो भवन्तो महर्षयः सर्च एव वातादाकैकस्य यदाहुस्तत् सम्यगाहः। अन्यत्रकान्तवचनात । प्राणिनां शुभाशुभयोः कारणस्यैकान्तवचनादव्यभिचारिवचनादन्यत्र । वातादेवकैकस्य कुपिताकुपितस्य निखिलशुभाशुभयोः कारणवाभावात् । सम्यगाहुरित्यनेन वातादेवकैकस्य यथा यथा यद् यत् कुशादिभिरुक्तं तत् सन्मनुमत्य निखिलशुभाशुभयोः कारणवाभावाद् व्यभिचारचाह स्मान्यत्रैकान्तवचनादित्यनेनेति । तहि किमेकान्तवचनमिति ? अत आह-सव्व एवं खल्वित्यादि। सवें खलु समस्ता एव वातपित्तश्लेष्माणः प्रकृतिभूता अकुपिता अव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नं महतायुषा चोपपादयन्ति पुरुषम् । सम्यगिवेत्यादि दृष्टान्तः । यथा धर्मार्थकामाः सम्यगाचरिता महता निःश्रेयसेन शुभेन पुरुषमिह लोके चक्रपाणिः-ऐकान्तिकवचनादित्यवधारणादित्यर्थः । निःश्रेयसेन सुखेन, ऋतवस्त्रयः इति शीतोष्णवर्षलक्षणाश्चतुर्मासेन ऋतुना, उपघातकाल इति दोषोच्छेदे काले ॥ १७॥१८॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy