SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः ] सूत्रस्थानम्। शरीरसमुदाये नाकाशादय उपदिश्यन्ते, दृश्यन्ते चाकाशादयस्ते कुतः सम्भबन्ति किन्ते चाधिका नरक्षादयश्च चेतनाचे तना लोका उपदिष्टाः सन्तु मृतानां तेषामुपदेशे कि प्रयोजनमस्ति जीवितानां वा किमित्याशङ्कयाह, तत्र सर्वमित्यादि। तत्र लोके सर्वमाकाशादिक द्रव्यगुणादिक प्रतिष्ठितं सत्तू चात्मनि च शरीरे च समुदाये च प्रतिनियतं यद्यत् तत्सर्वं स्थितं यच्च सर्च त्रिलोक्यां तस्मादयपि मिथः संयोगात् सत्तात्मशरीरसमुदायो लोकाभियो भवति। लोकजगतोः साम्यं स्वयमेव शारीरस्थाने व्याख्यास्यते। एतेनैतदुक्तमाचार्यण। सत्तात्मशरीरसमुदायात्मकस्वयं लोको यस्माद द्रव्यगुणकम्मतित्रयात्मकस्तस्मात् तत्र सर्व प्रतिष्ठितं द्रव्यादित्रयात्मकखमेवास्य न तु द्रव्यादिचतुरात्मकवं द्रव्यगुणकर्मणां मेलकसमवायेन मिलितसमुदायले तदद्रव्यादीनां त्रयाणां मेलकखेन समवायस्य प्रकृतिभूतकारणखाभावादेव तन्मयखाभावेन कार्यवाभावात्। द्रवयादित्रिभावात्मकोऽपि सत्तात्मशरीरसमुदायत्वेनापूर्वापरविशिष्टगुणकर्मवान् बोध्यः एवं घटायचेतनोऽपि । ननु कारणानुरूपं हि कार्य तस्माइ सत्तात्मशरीरसमुदायत्वे लोके कथमिच्छादेपसुखदुःखप्रयत्नचेतनाधृतिबुद्धिस्मृत्यहङ्कारकर्मकर्मफलमोहजीवितमरणादिकं वर्त्तते ? सत्तुं हि अणुवमेकत्वञ्चेति द्विगुणं क्रियावदचेतनञ्च आत्मा निगुणो निष्क्रियः सत्तरजस्तमःसाम्यलक्षण इति शरीरं चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमूदायात्मकं तदारम्भकाकाशादीनां च भतानां गुणा न भवन्तीच्छादयो गुरुखादयश्च । इति चेन्नात्रात्मशब्देनेच्छाद्वषादीनामाश्रयत्वेन तेषां ग्रहणादिति कश्चित्तन्नात्मनो निगुणवेनेच्छाद्वेषादीनां प्रत्यगात्पनि जनकलादिच्छादिलिङ्गकखादिच्छाद्याश्रयखाभावादन्यथा सुखदुःखात्मकयोरारोग्यरोगयोरात्मवृत्तिखापत्तेः। न हि तदिष्टं भवति शरीरं सत्तुसंज्ञश्च व्याधीनामाश्रयो मतः। तथा सुखानामिति बक्ष्यमाणवचनासङ्गत्यापत्तेः । सत्तुमात्मा शरीरञ्चेत्यादिरूपेण पुरुषोपदेश न कृषा चतुर्विशतिधा खात्मा लोक इत्युपदेशेन तदर्थ लाभाच । मोहः सुखं दुःखं जीवितं मरणं प्रभा" *। स पुमानिति तत् सत्बादित्रय पुमानिति भण्यते, तत्र यद्यपि सत्त्वादित्रय नपुंसकलिङ्ग, तथापि पुमानिति वक्ष्यमाणलिङ्गग्रहणात् स इति पुलिङ्गनिर्देशः ; यथा---"णेरणी यत् कर्म णौ चेत् स कर्ता" इत्यादौ ; किञ्च तदिति यद्यपि वर्तमाननिर्देशः कृतस्तथापि तस्यैव स इत्यतीतनिर्देशोऽपि सर्वनाम्नां सर्वकालनिर्देशादेवाविरोधो * शुभा इति क्वचित् पाठान्तरम् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy