SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ अध्यायः सूत्रस्थानम् । ५६३ त्रिविधविकल्पं त्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत् ॥ २०॥ गङ्गाधरः-अस्य संशामाह। त्रिविधेत्यादि। एतदतियोगायोगमिथ्यायोगैर्विकल्पो यस्य तं त्रिविधविकल्पं, त्रिविधमेव वाङ्मनःशरीरप्रत्तिरूपं कम्मे वाचा कृतं मनसा कृतं शरीरकृतञ्च प्रज्ञापराध इतिसंश व्यवस्येत् । प्रशाया अपराधो धीधृतिस्मृतिभ्रंशस्तन्मूलखादेतत् त्रिविधं कर्म च प्रज्ञापराव उच्यते । यथा आम्राज्जात आम्र एवोच्यते । एतत् प्रज्ञापराधाख्यं त्रिविधं कर्म यत् पापं जनयति तत् खलु किञ्चित् सद्यःफलं गोदोहनवत्, किञ्चित् कालान्तरफलं वृक्षमूले जलसेचनवत्। तत्र कालान्तरफलं परलोकाहितं पापं जनयति पुनर्जन्माहितश्च । यत् सद्यःफलं तदिहैव जन्मनि पापं जनयति। तत्पापमपि प्रज्ञापराधमूलकखात् प्रज्ञापराध एवोच्यते । कालान्तरफलन्तु यदिह जन्मनि पुनर्जन्मनि परलोके चाहितं पापं जनयति तत् पापं न प्रज्ञापराध उच्यते। कालान्तरे परिणामतोऽशुभजनकखात् परिणाम एवोच्यते। न तु सव्वं पापं प्रशापराधेऽथवा परिणामेऽन्तर्भवति । त्रिविधन्तु खल्वेतत् कर्म वाङ्मनःशरीरवृत्तिरूपं प्रज्ञापराधाख्यं यथा पापं जनयति तथा खल्विहैव पुनर्जन्मनि च व्याधि जनयति। यत् तु तत्र पुनर्जन्मनि यं व्याधि जनयति तत् कर्म देवसंज्ञकं, स च व्याधिः कम्मंज उच्यते। यत् तु यं व्याधिमिह जन्मनि जनयति स व्याधिः प्रज्ञापराधज आगन्तुप्रभृतिरुच्यते। वक्ष्यते च शारीरे कतिधापुरुपीये-“धीधृतिस्मृतिविभ्रष्टः कम्म यत् कुरुतेऽशुभम् । प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्॥ उदीरणं गतिमतामुदीर्णानाञ्च निग्रहः। सेवनं साहसानाञ्च नारीणा. ञ्चातिसेवनम् ॥ कम्नकालातिपातश्च मिथ्यारम्भश्च कम्मणाम्। विनयाचारलोपश्च पूज्यानाञ्चाभिधर्षणम् ॥ ज्ञातानां स्वयमर्थानामहितानां निषेवणम् । धर्मोत्पादावान्तरव्यापारेणैव ; अन्ये तु कालमिथ्यायोगेऽधर्म क्षिपन्ति, अधर्मो हि कालवशादेव फलति न तत्कालमिति कृत्वा ; एतच्च प्रथमाध्याय एव प्रपञ्चितम् ॥ १९॥ चक्रपाणिः--सम्प्रति कर्मासम्यगयोगः प्रज्ञापराधमूलत्वात् प्रज्ञापराध एव उच्यत इति त्रिविधमित्यादिना दर्शयन् , यदुक्त पूर्वहेतुत्रयकथने-"असात्मेवान्द्रयार्थसंयोगः प्रज्ञापराधः परिणामश्च' इत्यस्याविरोधं दर्शयति ; एवं यदने वक्ष्यति-"कालः पुनः परिणाम उच्यते" तत्रापि पूर्वोक्ताविरोधोपदर्शनं व्याख्येयमिति । त्रिविधविकल्पमिहातियोगादिरूपम् ॥२०॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy