________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
सूत्रस्थानम् ।
પૂપ तस्मात् सर्बेन्द्रियाणां व्यापकस्पर्शकृतो यो भावविशेषः, सोऽयमनुपशयात् पञ्चविधस्त्रिविधविकल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः। सात्म्यार्थो ह्य पशयार्थः ॥ १८ ॥
तस्मादित्यादि। तस्मात् सवन्द्रियव्यापकस्पर्शनेन्द्रियप्तमवायिबाच्चेतसः खल्वात्मनाभीप्सितार्थग्रहणाय प्रेरितेन स्पर्शनेन्द्रियवमना प्राप्तस्य तदर्थग्राहकस्येन्द्रियस्य तस्मिंस्तस्मिन् स्वे स्वेऽर्थे सबैन्द्रियाणां व्यापकस्य स्पर्शनेन्द्रियस्य स्पर्शकृतो यो भावविशेषः स तु तदिन्द्रियस्य तदर्थप्राप्तिनिवृत्त्यन्यतरलक्षणः स्पर्शनेन्द्रियस्पर्शन क्रियाकृतो मेलकाभेलकसमवायपृथक्त्वान्यतर एव तदिन्द्रियस्थशब्दादिभिः सहार्थानां शब्दादीनां भेलनं यः करोति स च समवायः। यस्तमेलनं करोति तत् पृथक्त्वमिति उभयमेव संज्ञयवेहेन्द्रियार्थसंयोग उच्यते। द्रव्यस्था हि शब्दादयो गुणास्तदिन्द्रियगुणे तदर्थगुणस्य मेलने तयोर्वाश्रयद्रव्यसंयोगमन्तरेण न सम्भवतीति । स च द्विविधः-सात्म्योऽसात्म्यश्च । य उपशेते स सात्म्यः। यो नोपशेते सोऽसात्म्य इति अतस्त्रिवियो विकल्पः पञ्चविधः। सोऽयमिन्द्रियेणार्थस्य अतियोगायोगमिथ्यायोगात्मकः संयोगोऽनुपशयादेतोरसात्म्येन्द्रियार्थसंयोगः संशया भवति। तस्मादयोगोऽपि लभ्यते। कस्मादसात्म्येति ? तत्राहसात्म्यार्थी हुापशयार्थः। हि यस्मात् सात्म्यमित्ययमर्थ उपशयार्थः । विकल्पः पञ्चविधः। यदात्मना सहेकतां याति तत् सात्म्यम् । असात्म्याथोंव्यापकत्वं दर्शयित्वा सन्द्रियानुगतं स्पर्शमर्थ ग्रहणकारणमेकरूपं दर्शयति, ततश्च तस्यैकस्य असात्म्येन्द्रियार्थेन संयोगापपन्न एकरूपोऽसात्म्येन्द्रियार्थ-संयोग इति दर्शयति तत्रैकमित्यादिना सात्म्यार्थी हुपपशयार्थ इत्यन्तेन । एक स्पर्शनमिति स्पर्शनमेव नान्यच्चक्षुरादि, इन्द्रियाणामिति निर्धारणे षष्टी, इन्द्रियाणि चक्षुरादीनि व्याप्नोतीतीन्द्रियव्यापकम् । स्पर्शनं हि सर्वेग्विन्द्रियेषु अम्ति, अत एव स्पृष्ट्वार्थमिन्द्रियाणि गृह्णन्ति ; तर्हि न कथं सर्वदार्थग्रहणं स्यादित्यत आह चेत इत्यादिना। श्रोत्रञ्चास्मद् दर्शने पाञ्चभौतिकं कर्णशकुलीगतनभोरूपं, तेन, तस्यापि स्पर्शोऽस्ति ; चेतासमवायि मनःसम्बन्धि, मनासम्बन्धकथनेनार्थग्रहणं प्रति समर्थत्वं स्पर्शस्य दर्शयति, मनोऽधिष्टितानामिन्द्रियाणामर्थग्राहकत्वात् ; तत् किमणुपरिमाणेन मनसैकत्रस्थितेनैव स्पर्शनत्य सर्बेन्द्रियव्यापकस्य सम्बन्धात् सर्वेन्द्रियाणि प्रवर्त्तन्ते, तथा सति युगपत पञ्चज्ञानोत्पत्तिप्रसङ्ग इत्याह-स्पर्शनेन्द्रियव्याप्तेयापकमपि चेत इति। स्पर्शनेनेन्द्रियाणां व्याप्तिः स्पर्शनेन्द्रियव्याप्तिः, तस्याश्चेतोऽपि व्यापकम्, एतदुक्त भवति-यावति प्रदेशे स्पर्शनं
For Private and Personal Use Only