SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः ] सूत्रस्थानम् । ४५ सत्त्वमात्मा शरीरश्च त्रयमेतस्त्रिदण्डवत् । लोकस्तिष्ठति संयोगात्तत्र सर्व प्रतिष्ठितम् ॥ गङ्गाधरः--अथ द्रवयसामान्योदाहरणमायुवेद क्रियाधिकरणोपदेशेन दर्शयति ;-सत्तमात्मेत्यादि । सत्तुं सत्तुसंज्ञकं मनः। आत्मा सत्तादित्रिगुणलक्षणमव्यक्तं नाम चतुविशं तत्तम् । शरीरं पञ्चमहाभूतविकारसमुदायात्मकं चेतनाधिष्ठानभूतं तच्च शुक्रशोणितादिसम्भूतं स्थूलं गृह्यते न वाहङ्गारिकेन्द्रियादिमत् मूक्ष्मं क्रियानधिकरणत्वात् । अत्र सत्तादिसङख्य यनिद्दे शे सङ रव्यालाभेऽपि द्वयोः संयोगे लोकत्वनिरासायाह, त्रयमिति। तेनैतत्रयं समस्तं संयोगामिलितं लोको लोकाभिधः संस्तिष्ठति स्थित्यादिक्रियासमर्थत्वेन वर्तते। लोक दीप्तौ कृद्योगे रूपसिद्धिः। लोकाभिशनात् जगत्साम्यं ख्यापितम् । त्रिदण्डबदिति। यथा त्रयो दण्डा मिलिताः समुदायात्मको विशिष्टखिदण्डाख्यो भावविशेषस्तिष्ठति वस्त्वन्तरधारणादिक्रियायां स्वयमवस्थानक्रियायाञ्च समर्थ त्वेन वर्तते। एतेनैतदुक्तं भवति। यथा दण्डत्रयं परस्परं संयोगेन धारणावस्थानसमर्थ भवति, न च संयोगाभावान वा द्वयोः संयोगात्। तथा सत्त्वात्मशरीराणीति त्रयं परस्परं संयोगान्मिलितं लोकाख्यः सन् स्वयमवस्थानवस्वन्तरधारणादिसमर्थो भवति न संयोगाभावान्न च द्वयोः संयोगात्। मृतस्य सूक्ष्मातिवाहिकशरीरं पारलौकिकं वैदिकक्रियाधिकरणत्वाभावानोक्त शरीरेन्द्रियसत्तात्मसंयोगोधारि जीवितमायुरुक्तं तत्संयोगवान् सत्तात्मशरीरसमुदायो लोक इत्याधाराधेयभावाभ्यां लोकायुयोर्भदः। यच्चायुलक्षणे शरीरात् पृथगिन्द्रियमुक्तं न चात्रेन्द्रियमुक्तं शरीरग्रहणेन गृहीतं तत्तु खल्वायुल क्षणे यदिन्द्रियग्रहणं रुक्षादीन् गुणान् दृष्ट्वा चित्रको वायुधिको योऽनुमितः, स च चित्रक उपयुक्तो वातं वर्द्धयति, गुणास्तु गुणानेव जनयन्तोऽतिवर्द्धयन्ति । सामान्यञ्च वृद्धिकारणलक्षणं, न साक्षात् वृद्धिकारणमिति प्रागेवोक्तम् ; एवं विशेषेऽपि । अयञ्च सामान्यविशेषवादो ग्रन्थविस्तरभयादायुर्वेदोपयुक्तधम्ममात्र णोक्तः, विस्तरस्त्वस्य वैशेषिके बोद्धव्यः ॥ १८॥ चक्रपाणि:-सम्प्रति सामान्य विशेषावभिधाय उद्देशक्रमानुरोधात् गुणेऽभिधातव्ये, गुणेषु प्रधानभूतमायुर्वेदोपकायें सत्त्वात्मशरीरसंयोगं वक्त माह-सत्त्वमित्यादि।-कंवा सामानवविशेषाभ्यामेव हेतुलिङ्गौषधानि दशितानि, सामानविशेषवत एव सर्वत्र कारणत्वात् लिङ्गत्वाञ्च, एतावदेव विचार्यमाणं तन्वं भवति, अधिकरणञ्च नोक्तमतः सत्त्वादिमेलकं हेत्वाद्यधिकरणमाह, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy