SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श अध्यायः सूत्रस्थानम् । ५५५ त्रीण्यायतनानीत्यर्थानां कर्मणः कालस्य चातियोगायोगमिथ्यायोगाः। तत्रातिप्रभावतां दृश्यानामतिमात्र दर्शनम् अतियोगः, सर्वशोऽदर्शनमयोगः, अतिसूरुमारणाञ्च * तथातिविप्रकृष्ट-रोहीरवाइलहिष्ट-बीभत्सविकृतादिरूपए-दर्शनं गङ्गाधरः- क्रमिकलात् त्रीण्यायननान्याह---त्रीण्यायतनानीति। अर्थानां शब्दस्पशरूपरसगन्धाः पञ्च बाह्यास्तेषाम् अतियोगायोगमिथ्यायोगा एकमायतनम्। कर्मणश्वातियोगायोगमिथ्यायोगा इत्येकमायतनम्। कालस्य चातियोगायोगमिथ्यायोगा इत्येकमायतनम् । कारणं रोगाणामिति त्रीण्यायतनानि रोगाणां कारणानि । अतियोगायोगमिथ्यायोगानामसम्यगयोगलेनैकखादेकतया गप्यत इति त्रीणि। न तु नत्र।। __तत्रादितोऽर्थानामतियोगादिपदाहर्तव्येषु प्राधान्यात् प्रथमं चक्षुरातियोगादीनुदाहरति -तत्रेत्यादि। तत्र तेषु त्रियायतनेषु मध्ये, अतिप्रभावतां सूर्यादीनां देवपिगन्धवादीनाञ्च दृश्यानामलिमानं दर्शनं चक्षुरानामतिशयेन योग इत्यतियोगः। दृश्यानामित्यधिकारः। दृश्यानां सर्वशोऽदर्शनं चक्षुरानामयोगः। अतिसूक्ष्यादीनां चक्षुरानां दृश्यानां दर्शनं सम्यगदृश्यखाभावान्मिथ्यायोगः । अतिविप्रकृष्ट रूपमतिदूरस्थं मूर्तम् । रौद्रमुन रूपम् । भैरवं भीमं मूर्त्तम् । अव भुतमाश्चयं मृत्तम् । द्विष्टं द्रष्टा यद्रूपं द्वेष्टि तद् रूपम् । बीभत्सं विड़ादिरूपम् । विकृतं कर्णादिहीनं मृत्तम्। आदिपदेनामनोक्षमूत्तमिति । रूपशब्देन रूपगुणवद द्रव्यमुच्यते। इति त्रिधाविकल्पश्चक्षुरर्थस्यासात्स्ययोग एकः। चक्रपाणि:-अर्थानामिान्द्रयार्थानाम्, कम्मणः कायवाङ्मनःप्रवृत्तेः, कालस्य शीतोष्णवर्षलक्षणस्य । अतिप्रभावतामातपाग्निप्रभृतीनाम् । अत्र हीनमात्रदर्शनं विकारं न करोति, तेन सर्वश इत्युसम्, एवमन्यत्रापि सर्वश इति व्यायम् । अदर्शनञ्चातिप्रभावतामेव बोद्धव्यम्, अप्रभावताञ्ज घटादीनां दर्शनमतियोगादपि न दोपकरम्। अतिश्लिष्टं नयनप्रत्यासन्नम्, अतिविप्रकृयमतिदूरवर्ति, रौद्रम तकारणात्मकं, भैरवं भयजनकम् अद्भु तमपि व्याघ्रादि, द्विष्टं यद्यस्य द्वध्यं, बीभत्सनं मनस उद्बोगकारकं, विकृतं हीनाङ्गादि, वित्रासनं झटिति भयजनकम्, आदिग्रहणात् अमेध्यादीनां ग्रहणम् । रौद्रादयो यद्यपि न रूपं किन्त्वाकृतिविशेषाः, तथापि रूपैकार्थसमवायेन चक्षुरा एव, न चेन्द्रियार्थग्रहणेन रूपादीनामेव परं ग्रहणमिति पूर्वमेव व्याख्यातं, यतः, * अतिश्लिष्टेति चक्रपाणिः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy