SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१६ चरक-संहिता। [ तिस्रेषणीयः मीयते वर्तते खलु कुत्रचिदस्य धूमस्य जनको निगूढो वह्निरिति। इति काव्येण कारणस्य वर्तमानस्यानुमानम् । एवमेवान्यत् सव्वं बोध्यम् । यथा देहेन्द्रियमनःसन्तापेन ज्वरो वर्तमानोऽनुमीयते, ज्वरस्य रूपं देहेन्द्रियमनःसन्ताप इत्याप्तोपदेशेन ज्वरस्य धर्मिणो धर्मस्य तत्सन्तापस्य नियतसाहित्य येन ज्ञातमसकृत् स यदा देहादिसन्तापं स्पर्शनेन जानाति तदा ज्वरमनुमिनोति। स एव ज्वरो यदि गृढलिङ्गो वत्तते रोगान्तरतया वा संशीयते तदा ज्वरप्रशमनरौषधानविहारैः प्रयुक्तस्तस्य व्याधेरुपशयतो हासेन शातेन ज्वरोऽनुमीयते। अनुपशयतो वृद्धग्राऽनुमीयते रोगान्तरमिति नायं ज्वर इति। रूपेणोपशयेनानुपशयस्वरूपनिदानेन वर्तमानव्याघेरनुमानम् । इत्येवं स्वरूपलक्षणेनानुमितस्य व्याधेर्वातादिजखेनानुमाने यद् यद् वातादिजस्वरूपं नामलिङ्गमुक्तं तेषु किश्चिदव्यभिचारि किश्चिञ्च व्यभिचारि भवदपि तत्तदव्यभिचारिस्वरूप-लिङ्गसहचरित-वातादिजाव्यभिचारि-लिङ्गसहचरितखेन वातादिजखेनानुमाने लिङ्गं भवत्येव । यदा वातज्वरे कम्पः, कम्परोगे च कम्पः। पित्तज्वरे स्वेदः वातश्लेज्वरेऽपि स्वेदः। तथा स्वेदादिरोगेऽपि स्वेद इत्येवमादिलिङ्गमेव तत्तग्राधिप्रतिपत्तिसाधनखात् । प्रतिपत्तिसाधनं हि लिङ्गमिति । वक्ष्यते च निदानस्थाने–लिङ्गञ्चैकमनेकस्य तथैकस्यैकमुच्यते । बहून्येकस्य च व्याधेबहूनां स्युर्बहूनि च॥ विषमारम्भमूलानां लिङ्गमेक ज्वरो मतः। ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते। विषमारम्भमूलश्च ज्वर एको निरुच्यते। लिङ्ग रेतैर्वरश्वास-हिक्काद्याः सन्ति चामयाः॥” इति । इति कार्येण वत्तेमानस्य कारणस्यानुमानमुदाहृत्यातीतस्य कारणस्य कार्येणानुमानमुदाहरति-मैथुनं गर्भदशर्नादित्यादि। अतीतं मैथुनं गर्भदर्शनादनुमीयते। एवमेतत्प्रकारेणातीतं कारणं कार्येणानुमीय बुधा व्यवस्यन्ति। अत्रेयं युक्तिरपेक्ष्यते। यः खल्वाप्तोपदेशेन ज्ञातवानेवम् अदुष्टशुक्रपुरुषेणादुष्टशोणितगर्भाशयया ऋतुस्नातया सह संवसेत्, तस्य पुत्रादिकारणदिष्टाधिष्ठितशुक्रं तस्या गर्भाशयगतादुष्टात्तवेन संसृष्टं पाश्चभौतिक परलोकादवक्रामति वीजधा जीवात्मा। तदा तत्पञ्चमहाभूतानामात्मनश्च संयोगात् गर्भसम्भवः स्यादिति। स खलु नार्या गर्भदर्शनादेवमूहति पञ्च एतच्च व्याकृतमेव, निगूढोऽदृश्यमानः, एवं व्यवस्यन्त्यतीतमिति व्यवच्छेदः। वीजादिति सहकारिकारणान्तरजलकर्षणादियुक्तादिति बोद्धव्यम् ; अनागतं फलं सदृशं व्यवस्यन्तीति सम्बन्धः। 'दृष्ट्वा वीजात् फलं जातम्' इत्यनेन वीजफलयोः कार्यकारणलक्षणां व्याप्ति For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy