SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिस्प्रेषणीयः ५१२ चरक-संहिता। तदा पांशुराशिप्रभृतिष्वपि ते द्वे गुणान्तरे अशास्येताम् । द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिपु प्राणिसंगृहीतेप्वपि धारणाकर्षणे नाभविष्यतामिति तस्मात् सर्वग्रहणमेव । अथावयविनं प्रत्याचक्षाण आह-मा भूत प्रत्यक्षलोप इति । अणुसञ्चयं दर्शनविषयमिति प्रतिज्ञातवान् किमनुयोज्य इति ? एकमिदं द्रव्यमित्येकबुद्धिविषयम्। पथ्येनुयोज्यस्तु किमेकबुद्धिरभिन्नार्थविषया ? आहोस्विदनेकार्थविषयेति ? अभिन्नार्थविपयेति चेत्, अर्थान्तरानुज्ञानात् अवयविसिद्धिः। नानाथेविषयेति चेत्, भिन्नेप्वेकदर्शनानुपपत्तिः । अनेकस्मिन् एक इति व्याहता बुद्धिर्न दृश्यत इति । “सेनावनवद् ग्रहणमिति चेत् नातीन्द्रियत्वार्थत्वादणूनाम् ।” यथा सेनाङ्गेषु वनाङ्गेषु च दूरादगृह्यमाणपृथक्त्वेषु एकमिदमिति बुद्धिरुपपद्यते, तथा परमाणुषु सञ्चितेप्वगृह्यमाणपृथक्त्ववेकमिदमिति बुद्धिरुपपद्यते । दुरात् अगृह्यमाणपृथक्त्वानां सेनाङ्गानां बनाङ्गानाञ्च यथा च कारणान्तरतो दूराव पृथक्त्वस्य न ग्रहणम् । तद्यथा । अगृहामाणजातीनां धव इति वा खदिर इति वा जातिग्रहणं दूरान्न भवति । एवमगृहप्रमाणप्रस्पन्दानां सेनावनाङ्गानां दूरात् प्रस्पन्दनग्रहो न भवति । तथा च गृहप्रमाणेऽप्यर्थसगृहे पृथक्त्वस्याग्रहणादेकमिति भाक्तः प्रत्ययो भवति, न खणूनाम् । तथा संघाते गृहप्रमाणेऽप्यगृहप्रमाणपृथकलानां कारणतः पृथक्त्वस्याग्रहणाद्भाक्त एकप्रत्ययो भवति। कस्मात ? अतीन्द्रियत्वादणूनामिति । तथा चाणूनां संघातस्यैवैकप्रत्ययो भवति घट इति पट इति । न त्वणूनां भाक्तोऽपि प्रत्ययो भवति सेनावनाङ्गवत् । अतीन्द्रियत्वादिति गौतमाक्षपादः। सायशास्त्रे कपिलेन विवेकाद् बन्धध्वंसमुपदिश्य तद्विवेकजनकप्रत्यक्षलक्षणमुक्तम्। न केवलं प्रमाणस्तप्रत्यक्षलक्षणमुक्तम। तेन योगजप्रत्यक्षमिह प्रमाणभूतमत्यक्षाधिकारे चरकाक्षपादाभ्यां नोक्तमिति अविरोधः। कपिलेन यत प्रत्यक्षलक्षणमुक्तं, तदयधा-“यत्सम्बन्ध सदयतुतदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षम् ।” व्याख्यातञ्चैतत्-यद्विज्ञानं यत्सम्बन्ध सत। यत्रार्थ यतो जायमानं जन्यत्वेन सम्बन्धयुक्तं सत् । तदाकारोल्लेखि तत् तद्विपयकखतरजन्यत्वाभ्यां नाम्नोल्लेखयुक्तं भवति तद्विज्ञानं तस्यार्थस्य प्रत्यक्षं भवति। विशेषेण ज्ञायते येन तद्विज्ञानम् । खल्विदमेवं दोपाद्धेयमिदमेवंगुणत्वादुपादेयमिदं पुनदोषगुणाभावेन प्रयोजनामावादुपेक्ष्यमित्येवं निश्चीय व्यवस्यति येन तज्ज्ञानं विज्ञानम्। यथा खल्वयं चक्षुपा घटं पश्यन मनसा वितायं मृन्मय एतल्लक्षण एतत्प्रयोजनाय हेय एतदर्थ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy