SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११श अध्यायः ] सूत्रस्थानम् । ५०६ इन्द्रियेणार्थस्यातिसन्निकर्षातिविप्रकर्षातिसौक्ष्म्यकरणदौर्बल्या भिभवसमानाभिहारावरणमनोऽनवस्थानैरप्राप्तेः । न वार्थस्येन्द्रियेण सर्व्वप्राप्तेः प्राप्तप्रकाशकत्वम् । किन्तु प्राप्तानामेवार्थानां प्रकाशकत्वमिन्द्रियाणाम् । काचाद्यन्तवर्त्तनामपि सन्निकर्ष सतीन्द्रियेण स्वज्योतिषा सूक्ष्मगुणेन काचाद्यन्तः प्रविश्य प्रकाशः क्रियते । न सर्व्वाङ्गप्राप्तेरिन्द्रियाणां सूक्ष्मत्वात् । सूक्ष्मं हि तेजो विशदं समानगुणैरावरणादिभिर्न प्रतिहननीयम् प्रतिहननीयन्तु विपरीतगुणैः । तथा च काचादिभिः प्रसन्नरावरणैरप्रतिहतं चक्षुस्तेजः सौक्ष्म्येण काचादिकं विभिद्यान्तः प्रविश्यार्थ काचाचन्तर्गतं प्रकाशयति प्रसादगुणवद्रव्यानुग्रहात् । अन्यकारस्थं घटादिकमिव वाह्यालोकानुग्रहात् । अप्रसादगुणवद्भिः कुड्यादिभिश्चक्षुस्तेजो विपरीतगुणैरावरणैः प्रतिहतं चक्षुस्तेजः कुड्यान्तर्गतमर्थं न प्रकाशयति, कुड्यादि विभिद्यान्तःप्रवेशासामर्थ्यात् । इति । Acharya Shri Kailassagarsuri Gyanmandir अथैवम्भूतं प्रत्यक्षमनमानमेकदेशग्रहणादुपलब्धेः । वृक्षं पश्यतः खलु वृक्ष एप एवंगुण एवंदोष इत्येवमादि यदिन्द्रियार्थसन्निकर्षानिश्चयात्मकमव्यपदेश्यमव्यभिचारि ज्ञानमुत्पद्यते तेनासौ हातुमुपादातुमुपेक्षितु वा यद्वावस्यति तद्वयवसायात्मकम् । तत् प्रत्यक्षं नाम ज्ञानं न प्रत्यक्षं नाम प्रमाणान्तरम् । किं तहि प्रमाणं न स्यात् ? स्यात् प्रमाणमनुमानं नाम । कस्मात् ? एकदेशग्रहणाद् वृक्षादेरुपलब्धः । चक्षुर्हि सूक्ष्मं यावन्मितं तावन्तमेव वृक्षस्यैकदेशHari गृहीला चक्षुषा वृक्षमुपलभते । न च वृक्षैकदेशो वृक्षः । तत्र यथा धूमं गृहीत्वा वह्निमनुमिनोति तथैकदेशं चक्षुषा गृहीला वृक्षमनुमिनोतीति । ? अत्र प्रश्नः - किं नु खलु वृक्षस्यैकदेशाद् गृह्यमाणादपरावयवमनुमेयं मन्यसे। तत्र द्वौ पक्षौ । अवयवसमूह एव वृक्षः । तस्यैकदेशग्रहणादवयवान्तराण्यनुमेयानि भवन्तीत्येकः पक्षः । अपरो द्रव्यान्तरोत्पत्तिरवयवसमूहसंयोगादेकं द्रव्यमुत्पद्यते । तानि चावयावान्तराप्यनुमेयानि तदवयवी चानुमेय इति द्वयमिति । तत्रावयवसमूह एवानुमेय इति चेत् ? तदा तदेकदेशग्रहणादनुमाने वृक्षबुद्धिनं स्यात् । न हि वृक्षोऽगृह्यमाणमेकदेशान्तरं गृह्यमाणैकदेशसहित एवावयवसमूहो वृक्ष इति । अथ चेदुच्यते-- एकदेशग्रहणादेकदेशान्तरानुमाने समुदायप्रतिसन्धानात् तत्र वृक्षबुद्धिः स्यात् तर्हि सावृक्षबुद्धिर्मानुमानं भवति । सति चैवं भवितुमर्हतीति । द्रव्यान्तरोत्पत्तिपक्षे पुनरवयवी नानुमेयः स्यात् । तस्य हेत्रकदेशसम्बन्धस्य ग्रहणाभावात् । अस्त्येकदेशसम्बन्धग्रहणमयं वृक्षस्य स्कन्ध एषा शाखा पत्रञ्चैतदित्येवमवयवन एकदेशग्रहणेऽपि तदेक For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy