SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। दीर्घजीवितीयः मवस्थान्तरमापन्न कर्फ हासयति न तु गुणसामान्येन वर्द्धयति अवजयात् । ननु कथमेवं वृद्धौ हेतः सामान्यं हासे विशेष इत्यत आह – “सामान्यमेकत्वकरं विशेषस्तु पृथक्त्वकृत्” इति। यतः सर्वदा सर्वभावाणां सामान्यमेकख करं मेलनेनैकीभावं करोति ; तस्मात् तेषां वृद्धि कारणमिति। यथा दुग्धजलयोट्रैवखादिसामान्यं ते मेलयति मेलयित्वा च वर्द्धयतीति। तथा च दुग्धजलयोरकापरविशिष्टद्रवलापनलेनैकमेव वस्तु सद द्विपल भवतीति। न तु पारदजलयोस्तथा मेलनेनैकीभावस्ततो न द्धिरिति। कस्मादित्यत आह, विशेषस्तु गृथकवकदिति। “सर्वदा सर्वभावाणां विशेषस्तु पृथक्त्वकृत् । पृथक्वं स्यादसंयोगो वैलक्षण्यमनेकता” इति वक्ष्यते। अयोगेनानेकवं भावानां करोति न खेकख मिति ; पारदस्य जलस्य च द्रवखविशेषः पृथक्वमेव करोति । तयोदेवले सामान्ये सत्यपि विशेष एवास्ति तत्स्थयोद्रवखगुणयोरिति । एवं जातिश्च पञ्चब्राह्मणानां परेणैकेन ब्राह्मणेन सहैकवं मेलन करोति। क्षत्रियेणापरेण सह पृथक्वं तु ब्राह्मणवक्षत्रियखजातिविशेषः करोतीति। किं पुनः सामान्य को वा विशेष इत्यत आह “तुल्यार्थता हि सामान्य विशेषस्तु विपर्ययः” इति । समानानापनेकेषां भावः । न ह्य कः समानो भवति। सापेक्षधर्मकः समानः । तेनानेकेषां स्वत्तिवस्तुभाव उच्यते । अस्तीति भावः । यो यत्र वर्ततेऽर्थः स तस्य भावः। अत एव तुल्यार्थता सामान्यम। अर्थः कारणभूत काय्यभूतश्च वस्तु तुल्यं येषां ते तुल्यार्थास्तेषां भावस्तुल्य एवार्थः। येन समान यत् तस्य तेन “विपरीतगुणैव्यैर्मारुतः सम्प्रशाम्यति" इत्यादि। तथा जतृकर्णेऽप्युक्त “समानैः सर्वभावाणां वृद्धिानिर्विपर्ययाद" इति। अविरुद्धविशेषस्तु यद्यपि हासे वृद्धौ वाप्यकारणं, यथा पृथिव्या अनुष्णशीतस्पर्थो वातस्य शैत्यं न वर्द्धयति नापि ह्रासयति, तथाप्यग्निक्षीयमाणानां धातूनाम् असमानत्वेनाजनकत्वात् हासकारणमिव भवति, यतोऽसमानद्रव्योपयोगे सति हासो विनश्वराणां भावानाम् आपूरकहेत्वभावादुपलभ्यत एव, यथा वहतो जलस्य पूर्ध्वदेशसेतुना उत्तरदेशजलस्य हासः। एवम्भूतं चाविरुद्धविशेषोपयोगेऽपि हासं पश्यताऽऽचार्येण सामान्येनैव इहोक्त "हासहेतुविशेषः" इति, चशब्दः सर्वभावाणामिति समुच्चिनोति। ___ अथ किमसम्बन्धावपि सामान्यविशेषौ वृद्धिहासकारणं ? नेत्याह, प्रवृत्तिरुभयस्य स्विति, कारणमिति शेषः, उभयस्य सामान्यस्य विशेषस्य च, प्रवृत्ति: प्रवर्तनं शरीरेण अभिसम्बन्ध इति यावत्, एवम्भूता प्रवृत्तिः धातुसामान्यविशेषयोर्व दिहासे कारणमित्यर्थः, तुशब्दोऽवधारणे, तेन नासम्बद्धौ सामान्यविशेषौ स्वकार्यं कुरुत इति दशयति ; किंवा प्रवृत्तिरुचिता धातुप्रवृत्तिर्धातुसाम्यमिति यावत्, सा उभयस्य सामान्यस्य विशेषस्य च For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy