SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०४ चरक-संहिता। [तिषणोयः विशिष्ट कारणं तदुच्यते । यई तु समानयनमानादिज्ञानस्य न तन्निवत्यंत इति । मनसस्तीन्द्रियेण संयोगो वक्तव्यः । भिवमानस्य प्रत्यक्षज्ञानस्य नायं भिद्यत इति समानखान्नोक्तः। आत्ममनःसंयोगदिन्देशकालाकाशानि ज्ञानस्य सदस्यैव सामान्यकारणानि वर्तन्त एव । आप्तैयन येन वास्येनोपदिश्यते श्रुखा तद्वाक्यमर्थमवगम्य जानाति घट एष पट एप इति श्रावण शानं, शाब्दमिन्द्रियार्थसन्निकोत्पन्नत्वात् प्रत्यक्ष प्रसज्यते। यावन्तो यस्तावन्त एव नामधेयशब्दा घदायर्थी घटादयः शब्दाः, तैर्घटादिशब्देर्घटादयोऽर्थाः सम्प्रतीयन्ते ; अर्थसम्प्रत्ययाच व्यवहारः। तत्र खल्विन्द्रियार्थसन्निकर्षात उत्पन्नं घटादिवस्तुज्ञानं रूपमिति वा रस इति वा शब्द इति वेत्येवमादि। रूपरसशब्दाश्च विषयनामधेयं, तेन व्यपदिश्यते ज्ञानं रूपमिति जानीते रस इति जानीते इति नामधेय शब्देन व्यपदिश्यमानं सत् खलु शाब्दं ज्ञानं प्रसज्यते। तत आह-व्यपदेश्य मिति। शब्दार्थसम्बन्चे सनपयुक्त यदिदमर्थज्ञानं न तन्नामधेयशब्देन व्यपदिश्यते। गृहीते च शब्दार्थसम्बन्धेऽस्यार्थस्यायं शब्दो नामधेयमिति। यदा तु स एव रूपादिरों गृह्यते, तत्र पूर्व रूपमिदं रसोऽयमित्येवमाप्तोपदेशतो यज्ज्ञानं तज्ज्ञानान्न रूपादिदर्शनशानं विशिष्यते। तदाप्तोपदिष्टरूपादिज्ञानं रूपादिदशेनज्ञानमेव भवति। तस्य खर्थशानस्य चाक्षुषादेः समाख्याशब्दो नास्ति येन शब्देन प्रतीयमानोऽथों व्यवहाराय कल्पेत । न चापतीयमानेन व्यवहारः स्यात् । तस्य खल्वज्ञ यस्यार्थस्य संज्ञाशब्देनेतिकत्र्तव्यतायुक्तेन जिदिश्यते। रूपमिदमिति ज्ञानं रसोऽयमिति ज्ञानमिति न तु व्यपदिश्यते। चक्षुरादिभी. रूपादीन् न गृहीला तत्तदथज्ञानकाले समाख्याशब्दो न व्याप्रियते, व्यवहारकाले तु व्याप्रियते । तस्मादशान्दमिन्द्रियार्थसन्निकोत्पनवज्ञानं प्रत्यक्षमित्यव्यपदेश्यविशेषणेनोक्तम् । अथाव्यभिचारीति विशेषणेन ग्रोप्रे मरीचयो भौमेनोप्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा सनिकृष्यन्ते। तत्रन्द्रियार्थसन्निकर्यादुदकमिति ज्ञानसुत्पद्यते। तस्य प्रत्यक्षलप्रसङ्गो वार्यते। यदतस्मिंस्तदिति तद् व्यभिचारि। यत् तु तस्मिंस्तदिति तदव्यभिचारि शानं प्रत्यक्षमिति । अथ दुराचक्षुषायं पुरुषोऽथं पश्यन्नावधारयति । धूम इति वा रेणुरिति वा वदेत् । तदिन्द्रियार्थसन्निकपोत्पन्नमनवधारणज्ञानमव्यभिचारि भवदपि धानपरं, तेन “इन्द्रियार्थसन्निकर्पात् प्रवर्त्तते या' इत्येतावदेव लक्षणं बोद्धव्यम्, एतेन For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy