SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६४ . चरक-संहिता। [ति स्रेषणीयः ज्ञाप्यते प्रमाणलक्षणं प्राप्तस्तहि प्रतिषेधः प्रमाणासम्भवस्योपलब्धिहेतुखादिति । किश्चातः त्रैकाल्यासिद्धः प्रतिषेधानुपपत्तिः। काल्यासिद्धेः प्रमाणप्रतिषेधस्यानुपपत्तिस्त्रकाल्यासिद्धः। पूर्व हि प्रतिषेधसिद्धौ खल्वसति प्रतिषध्येऽनेन किं प्रतिषिध्यते ? पश्चात् प्रतिषेधसिद्धौ प्रतिषेध्यासिद्धिः प्रतिषेधा. भावात् । युगपत् प्रतिषेधप्रतिषेध्ययोः सिद्धाभ्यनुज्ञानादनर्थकः प्रतिषेधः प्रतिषेध्यप्रमाणस्य सिद्धेः। प्रतिषधलक्षणे च वाक्येऽनुपपद्यमाने सिद्धमाप्तोपदेशादीनां प्रामाण्यमिति। सर्वप्रमाणप्रतिषेधाच्च प्रमाणप्रतिषेधानुपपत्तिः। कथमिति चेत् ? तदोच्यते--त्रैकाल्यासिद्धेरित्यस्य हेतोर्यद्य दाहरणमुपादीयते तदा हेवर्थस्य त्रैकाल्यासिद्धेरित्यस्य प्रत्यक्षादीनामप्रामाण्यसाधकलं दृष्टान्ते भवता दर्शयितव्यमिति। तर्हि दृष्टान्तोपन्यासकरणे प्रत्यक्षादीनामप्रामाण्यं न भवति। तद्यथा-प्रत्यक्षादीनामप्रामाण्यमुपादीयमानमप्युदाहरणं नार्थ साधयिष्यतीति सोऽयं सर्वप्रमाणाहतो हेतुरहे तुः। प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धे रित्यस्य हेतोयदुरदाहरणं भवतोपादीयते तदा हेलर्थस्य प्रत्यक्षादीनामप्रामाण्यसाधकवं दृष्टान्ते भवता दर्शयितव्यमिति। तहि दृष्टान्तोपन्यासे प्रत्यक्षादीनामप्रामाण्यं न भवति । दृष्टान्तेन खलदाहरणप्रदर्शने स एव दृष्टान्तः प्रत्यक्षप्रमाणमन्यद्वा प्रमाणमेव भवति । न हि ऋते प्रमाणादन्यः कोऽपि दृष्टान्तः कर्तुं शक्यः स्यात् । यदेववमप्रमाणीभूतदृष्टान्तेनोदाहरणमुपादीयते तदा तदुदाहरण प्रत्यक्षादीनामप्रामाण्यमर्थ न साधयिष्यति तस्यैवाप्रामाण्यात् । इत्युदाहरणादिभिः सव्वरवयवैः प्रमाणैाहत एव काल्यासिद्धेरिति हेतुरहेतुभवति । अयं हि विरुद्धाख्योऽहेतुः। सिद्धान्तमभ्युपेत्य तद्विरोधी हि विरुद्धः इति वाक्यार्थी ह्यस्य विरुद्धाख्यस्याहेतोलेक्षणस्य सिद्धान्तः। स च वाक्याथः खलु यं सिद्धान्तं प्रत्यक्षादीनाभप्रामाण्यमभ्युपेत्य क्रियते तं सिद्धान्तं विरुणद्धि। यदि पञ्चावयवानोपादीयन्ते तदा प्रतिपेशे नोपपद्यते हेतुवासिद्धेरिति । तत्प्रामाण्ये वा न सर्चप्रमाणविप्रतिषेधः । स्ववाक्ये प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेरित्यादिप्रतिषेधलक्षणे पश्चावयवभूतानां प्रत्यक्षादीनामप्रामाण्ये सति परवाक्ये खलु प्रत्यक्षादिप्रामाण्यवादिनां वाक्येऽभ्यनुशायमाने प्रत्यक्षादीनामवयवभूतानां प्रामाण्यं प्रसज्यते चाविशेरादिति। एवञ्च इति संज्ञात्रयेणाप्तानां लोके प्रसिद्धिं दर्शयति। तेषामाप्तानां बाक्यमसंशयं निश्चितं सत्यं यथार्थमित्यर्थः। तद्वाक्यसत्यत्वे हेतुमाह--वक्ष्यान्त ते यस्मादसन्यं नीरजस्तमा इति । तमप For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy