SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८६ चरक-संहिता। तिषणीयः विद्यात् स्वाभाविकं षण्णां धातूनां यत् स्वलक्षणम् । संयोगे च विभागे च तेषां कम्मैव कारणम् ॥ अथापरा अतिरियम् । प्राणिनां जन्मकारणं स्वभाव एव ; नात्मास्ति जन्मकारणम्, तस्मान्नास्ति परलोकः। स्वभावादेव हि जायमानेषु प्राणिषु चैतन्यादयो जायन्ते- इति ये वदन्ति, तत्र युक्तिविरोधं दर्शयति, विद्यादित्यादि। प्राणिनामुत्पत्तो कारणं पड़ेव धातवः–पञ्च महाभूतान्यात्मा चति । तेषां पण्णां धातूनां यत् स्वलक्षणं तत् स्वाभाविक खभावजं विद्यात् । अनभिव्यक्तशब्दश्लक्ष्णमूक्ष्मलघुमुटुगुणमाईवशोपियलाघवकर्माकृल्लक्षणमाकाशं स्वभावसिद्धं न तु चैतन्यादिकर्मकृल्लक्षणम्। वायुः पुनरनभिव्यक्तलघुशीतरुक्ष-खरविशद-मूक्ष्माभिव्यक्तस्पर्शगुणरोक्ष्यग्लानि-विचारवेशद्यलाघवकृल्लक्षणः स्वभावसिद्धः, न तु चैतन्यादिकृल्लक्षणः। तेजस्वनभिव्यक्ततीक्ष्णोष्णमूक्ष्मलघुरुक्षविशदाभिव्यक्तरूपगुणदाह--पाकप्रभाप्रकाशवर्णकल्लक्षणं खाभाविकं न तु चैतन्यादिकृल्लक्षणम्। आपश्चानभिव्यक्त-द्रवस्निग्धशीत-मन्द सर-सान्द्र-मृदु पिच्छिलाभिव्यक्त-रसगुण-स्नेहोपक्लेश-बन्धविप्यन्दमादेवप्रहादकुल्लक्षणाः स्वभावसिद्धा न त चैतन्यादिवृल्लक्षणाः। पृथिवी चानभिव्यक्तगुरुवरकटिनमन्दस्थिरविशदसान्द्रस्थूलाभिव्यक्तगन्धगुणसंघातोपचयगौरवस्थैर्यकल्लाणा स्वभावसिद्धा न तु चैतन्यादिकृल्लक्षणा। आत्मा तु चेतनालक्षणः सत्त्वभूतगुणेन्द्रिययोगाच्चैतन्यादिकृत्स्वभावसिद्धः । तत्रात्मानमन्तरेण केवलपञ्चभूतारब्धे प्राणिनि कथं चैतन्यादयः स्युरिति ? तत्राहुः स्वभावकारणवादिनः-पाञ्चभौतिकशुक्रशोणिताहारजरससंयोगे पञ्चभिरेव भूतैर्जायमाना देवनरादयः खलु देवनरादिस्वभावेन चेतनाः. घटादयस्वचेतनाः स्वाभाविकवादिनो भूतचैतन्यपक्षं दूपति-- विद्यादित्यादि। स्वभावकृतं स्वाभाविक, षष्णां धातूनामिति पृथिव्यप्तेजोवारवाकाशात्मनां, एपाञ्च धातुत्वं शरीरधारणात् जगद्धारणाच्च ; स्वलक्षणमात्सीयमव्यभिचारि लक्षणं, थच्च पृथिव्याः काठिन्यादि, अपां द्रवत्वादि, तेजस उष्णत्वादि, वाबोस्तियंगगमनादि, आकाशस्याऽप्रतिघातादि, आत्मनोज्ञानादि ; एतेन, एतदेव परमेषां लक्षणं स्वाभाविक, न तावदात्मरहितानामेपान्चैतन्यमपि स्वाभाविकमस्तीति दर्शयति । ततश्च यत् प्रत्येक भूतानां न सम्भवति तन्मिलितानामपि न सम्भवति चैतन्यं, यतः, भूतानामपि संयोगादपि चैतन्यसम्भवे बहूनि चेतनानि स्युर्बाण्याद्यवस्थाभेदात्, ततश्च ज्ञातृभेदात् प्रतिसन्धानानुपपत्तिरिति भावः, आत्मसम्बन्धेन तु चैतन्यं For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy