SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८० चरक-संहिता। तिपणीयः इत्यतः संशयः, किं नु खल्वस्ति पुनर्भवा न ति। तत्र बुद्धिमान् नास्तिव्यबुद्धिं जयात् विचिकित्साच ; कस्मात् ? यहच्छामेव जन्मकारणं मन्यन्ते । अतः पुनर्भवस्वास्तिक्यवादे संशयः । कीदृश इति आह - किं नु खलिखत्यादि। किं नु भोः पुनभवोऽस्ति वा नास्ति इति मे संशय इत्यर्थः। इत्यश्च पुनभवः संशयविषयः प्रत्यक्षमात्र प्रमाणादिवादिमुनिभिः प्रत्यक्षाविषयलेन प्रमेयवाभावान्नास्तिनागमप्रमाण वादिभिम निभिरागमप्रमाणेन प्रमेयखाचास्तिखन च मन्यमानवात। इति पुनर्भवे संशयस्य स्थापना योध्या। ___ अत्र पुनर्भवस्यास्तिक्यपक्षस्य सायखेनाश्रित्योपदिशति -- तत्रेत्यादि। तत्र पुनर्भवस्य नास्तिस्यास्ति त्यसंशयबुद्धिषु मध्ये, बुद्धिमान प्रशस्तबुद्धिमान, नास्ति परलोक इति नास्तिवादनाचरणीं शुद्धिं जह्यात् । ननु परलोकोऽस्तीति मन्यामहे । संशयश्चास्तीति। अत आह-विचिकित्साच जह्या संशयञ्च जह्यात् । पुनर्भव इति यो व्रते, तद्वचनेन समं वादिविप्रपत्तिरूपतयैव संशयकारणं भवतीत्यत उक्तमुपसंहारे ‘अतः संशयः इति। एके मन्यन्ते जन्मकारणमिति । जन्मकारणमितिपदं मातरं पितरं तथा स्वभाव परनिम्नामितिपदत्रयेण सम्बध्यते ; यदृच्छाशापरे जना इत्यत्र मन्यन्ते जन्मकारणमितिपदं सम्बध्यते ; मातापितरावेवात्मान्तरनिरपेक्षावपत्योत्पादने कारणम् ; तेन, पूर्वशरीरं परित्यज्य शरीरान्तरपरिग्रहरूप आत्मनः परलोको नास्तीति प्रथमवादिनः पक्षः । परिदृश्यमानपृथिव्यादिभावानामेवायं । स्वभावः यत , संयोगविशेषामिलिसाः सन्तश्चेतनं पुरुषादिलक्षणं कार्यविशेषमारमन्ते, यथा सुराबीजादीनि प्रत्येकममदारणान्यपि मदकरं मद्यमारभन्ते ; नात्र कश्चिदात्मा विद्यते, यस्य परलोकः स्वादिति स्वभाववादिनो भावः। पर ऐश्वर्यादिगुणयुक्त आत्मविशेषः, तेन संसार्यान्सनिरपेक्षिणा निर्माण परनिर्माणम्, तत्रापि परस्यैवैश्वर्यादिगुणयुक्तस्य आत्मविशेषस्य प्रभावाद भूतानि चेतयन्त नान्मान्तरमस्तीति परलोकाभावः। यदृच्छा कारणाप्रतिनियमेनोत्पादः, न कारणप्रतिनित्रमेन कार्योत्पादोऽवधारयितु शक्यतेऽवधारकप्रमाणानां प्रामाण्यानवधारणात् : तस्मानामैव पुनर्णयानुभवाति न वाच्यमिति यादृच्छिकस्याभिप्रायः। पुनर्भवास्तित्वपक्षं गृहीत्वा पाह- तत्रेत्यादि। बद्धि मानिति प्रशस्तबुद्धियुक्तः, नास्त्येव परलोक इति विपर्ययज्ञानं नास्तिक्यबुद्धिस्तां जह्यात् ; परलोकविषयो यथा विपर्ययो धर्मानुष्ठानं प्रति विरोधकः, तथा स्तोकक्रमेणास्ति परलोको न वेति संशयोऽपि धर्मानुष्ठान प्रति विरोधक इत्याह--विचिकित्साच्चेति । विचिकित्सां जयादिति सम्बन्धः, विचिकित्सा * भूतानामिति पाठान्तरम् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy