SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०म अध्यायः ४६५ सूत्रस्थानम् । भवन्ति चात्र । साध्यासाध्यविभागज्ञो ज्ञानपूवं चिकित्सकः । काले चारभते कर्म यत् तत् साधयति ध्रुवम् ॥ ४ ॥ स्वार्थ विद्यायशोहानिमुपक्रोशमसंग्रहम् ।। प्राप्नुयान्नियतं वैद्यो योऽसाध्यं समुपाचरेत् ॥ ५ ॥ सुखसाध्यं मतं साध्यं कृच्छ्रसाध्यमथापि च । द्विविधञ्चाप्यसाध्यं स्याद याप्यं यदनुपक्रमम् ॥ ६॥ गङ्गाधरः-- अत्रोक्तादधिकवचनमस्तीति तद्वक्तुमाह-भवन्ति चात्रेति । साध्येत्यादि। अधिकारात् साध्यासाध्यत्व विभागको व्याधीनाम्। ज्ञानपूर्वमिति व्याधीनां साध्यवासाध्यवादिज्ञानानन्तरं तदुपयोक्तव्यभेषजादिज्ञानानन्तरञ्च। काले आमपकादिकालविशेष यत् कर्म योग्यं तत्र यत् कम्म चिकित्सक आरभते तत् कर्म ध्र वं तं व्याधि साधयति । असाध्यसाधनयोग्यं हि कम्मे नास्त्येवेत्यसाध्ये करिब्धं न साधयतीति न व्यभिचारः ॥४॥ गङ्गाधरः-असाध्यव्याध्यपक्रमे वैद्यानां दोषं दशयति-स्वार्थेत्यादि। वार्थी धनलाभादिकं स्वप्रयोजनम्. विद्या विद्वत्त्वम्, यशः कीतिः, एषां या हानिस्ताम् । उपक्रोशं जनापवादम्, असंग्रहं चिकित्साथ लोकै. रग्राह्यतम् । इत्थञ्च साध्ये व्याधौ प्रतिवद्यानामर्थादिलाभानुपक्रोशोपसंग्रह करी भवतीत्युक्तं भवति ॥ ५ ॥ गङ्गाधरः-तत्र साध्यवासाध्यत्वज्ञानाथमुपदिशति--सुखसाध्यमित्यादि। साध्यं द्विविधम्-एकञ्च सुखसाध्यमथापि च द्वितीयश्च कृच्छसाध्यं मतम् । असाध्यमपि द्विविधम्, चकाराद्विविधमित्यस्योभयत्रान्वयः। यदेक याप्यं स्यात् चकारादपरमनुपक्रमं प्रत्याख्येयमित्यर्थः । भेषजेनात्यल्प चक्रपाणिः- ज्ञानपूर्वमिति भपजादिज्ञानपूर्व यत् कारभते तत्कर्म चिकित्सितरूपं, साधयति साध्यमिति शेषः। असाध्यव्याधौ न प्रवर्तितव्यमिति शिक्षयति-अर्थत्यादि।अर्थोऽर्थलाभः, हानिः क्षतिः, उपक्रोशो जनापवादः, असंग्रहश्चिकित्सार्थमनुपादानं, यदि वा, असद ग्रह इति पाठः, तदा चासद ग्रहो राजदण्डेनासत्पुरुषैश्चाण्डालादिभिर्ग्रहणम् ॥ १५ ॥ चक्रपाणिः-- साध्ये प्रवृत्तिरुक्ता, असाध्ये निवृत्तिः । तेन साध्यासाध्ययोर्भेदकथनपूर्वक लक्षणं वक्त माह-सुखसाध्यमित्यादि।--अकिञ्चित्करत्वेनाऽविद्यमान उपक्रमो यस्य तदनुपक्रम, "स्वार्थ" इत्यत्र “अर्थ" इति चक्रपाणिसम्मतः पाठः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy