SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म अध्यायः सूत्रस्थानम् । ४५३ विद्या वितको विज्ञानं स्मृतिस्तत्परता क्रिया। . यस्यते षड़, गुणास्तस्य न साध्यमतिवर्तते ॥ १५ ॥ विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः। वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यदः ॥ पेक्षीणि भवन्ति। यथा शस्त्रविद्याविशारदपुरुषे शस्त्रं सद्गुणं भवति न तु शस्त्रविद्यायामकुशले, तथा व्याख्यानादिभिः स्वधीतशास्त्रे पुरुषे शास्त्रं वैशधादिगुणं भवति, न खधीतमात्रं सदुपदेशहीनं शास्त्रं, सलिलञ्च स्वर्णादिसुपात्रे सद्गुणं भवति, न तूपरमृत्तिकादौ। तथा शस्त्रविद्यास्वविशारदपुरुषे शस्त्रं सद्गुणमपि सदोपं भवति। शास्त्रश्च कुव्याख्यानेनाधीतपुरुषे विपरीतार्थ भवति। सलिलञ्च सलवणादिपात्रे सलवणादि भवतीति । अतः शास्त्रं सुधियाधीतं सदुपदेशेन चेत्तदा गुणप्रवृत्तये भवतीति निष्कर्षस्तस्माचिकित्साथ प्रज्ञां वैद्यो विशोषयेत् सद्गुरूपासनेन शास्त्रमधीत्य प्रज्ञाविशोधनं कुर्यात् ।। १४ ॥ _ गङ्गाधरः--प्रज्ञाविशोषनशानार्थ लिङ्गान्याह --विद्य त्यादि। प्रज्ञा-विशोधनेन विद्यादयो भवन्ति । इत्यतो विद्याभिरनुमीयते प्रज्ञाविशुद्धिरिति। विद्या तच्छास्त्रे तत्त्वेनाधीते तच्छास्त्र विद्या अत्रायुवेदविद्या। वितर्कः शास्त्रार्थमूलक ऊहापोहः । विज्ञानं बहुशास्त्रज्ञानेन विज्ञवम् । स्मृतिर्यदा यथा यत् कत्तव्यं यत्र यदुक्तं तत्सर्वस्य स्मरणम् । तत्परता तत्तत् क्रियायां प्रयत्नातिशयः। क्रिया पुनःपुनश्चिकित्साकरणम् । यस्यैते पड़ गुणा इति गिलितार्थज्ञापनार्थ न साध्यमतिवर्त्तते साध्यं व्याधि नातिवर्तते असाध्यो न भवति ॥ १५ ॥ गङ्गाधरः-न वेवम्भूतो यो न स्यात् स किं न वैद्यः स्यादिति ? इत्यत आह --विदात्यादि । विद्यायुवंदविद्या । मतिः स्वाभाविकविशुद्धबुद्धिः। कर्मदृष्टिः दृष्टचिकित्सितकम्मखम्। अभ्यासश्चिकित्साक्रियायां शस्त्रावचारणादि--- क्रियाभ्यासः। सिद्धिः प्रायेणानेकरोगिणो कृतारोग्यखम् । आश्रयः सद्गुरोप्राणान् गच्छतो व्यावत्तंयाति प्राणाभिसरः । पात्रापेक्षीणीति गुणवति पात्रे सगुणानि दोपवति पात्रे दोषयन्तीत्यर्थः, विशोधयेत् सद्गुरुसच्छास्त्रसेवादिभिरित्यर्थः ॥ १०----१४ ॥ चक्रपाणिः-विद्या वैद्यकशास्त्रज्ञानं, वितर्कः शास्त्रमूलमूहापोहः, विज्ञानं शास्त्रान्तरज्ञानं किंवा सहजं विशुद्धं ज्ञानम्, तत्परतेह व्याधिचिकित्सायां प्रयत्नातिशयत्वं, क्रिया पुनःपुनचिकित्साकरणम् । मतिः सहजविशुद्धमतिः, अभ्यासः काभ्यासः, सिद्धिः प्रायशो व्याधि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy