SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म अध्यायः सूत्रस्थानम् । ४४५ कनकादीनां तेजोमयसादिकं न तेजस्तः पृथकवं व्यवहियते। आगन्तवस्तु ज्वरादयो वातादिधातुभ्यो भिन्ना एव। वातादिदुष्टेः पूर्वमेव तेषामुत्पत्तेने चागन्तुभूतादिहेवात्मका भवन्ति तल्लक्षणखादिति वाच्यम् । भूतायागन्तुहेतूनां निमित्तकारणवेन समवायिकारणखाभावे च प्रकृतिविकारभावासम्भवात् । नन्वेवं भूतादयस्वागन्तुहेतवो ज्वरादिरूपेण परिणमन्तः शरीरमाविशन्तीति मृद्घटादिवत् प्रकृतिविकारभावसम्भवेन समवायिकारणवं ज्वरादिषु भूतादीनां कारणानामिति चेत् ? न। धातुवैषम्यवत दुःखजनकभूतादिरपि विकार इत्युक्तबापत्तेरिष्ट्यापत्तो ह्याचाय्यस्य न्यूनतदोषः स्यात् तत्रापीष्ट्यापत्ती व्याधेरनन्तकल्पनायां महागौरवं स्यात् तत्रापि पावन्तः सन्ति भावास्तावतां कल्पनं किं गौरवमिति कृषा चेष्टापत्तिश्चेत् तदा उच्यते वाह्यहेतुभूतायागन्तुवत् शारीरदोपहेतुकदादिद्रव्याण्यपि भवन्तु समवायिकारणानीत्यतश्च प्रकृतिविकारभावासम्भवादिति। ननु कटादिभिर्हेतुभिर्वातादिवैषम्ये जाते ततो ज्वरादुरत्पत्तिरिव भूतादीनां ज्वरादुरत्पत्तेः पूर्वं वातादिजनकखाभावात् भूतादिवत् कटादीनां समवायिकारणलं प्रकृतिविकृतिभावश्च नास्त्येवेति चेत् सत्यमागन्तुहेतूनां भूतादीनामपि शरीरसम्बन्धात् पूच न ज्वरखादिरूपेण परिणामोऽस्ति परन्तु भूतादीनां देहसम्बन्धमात्रेण तेभ्यो धातुसंक्षोभस्ततस्तत्तद्भतादिनदुःखञ्च युगपदुत्पयते शारीरं मानसंवा न तदा वातादिभिरनबध्यते। तस्मान्न वाताधात्मकाः पश्चात् तु वातादिभिरन बन्ध्यत्वेन तत्त भूताद्यनुरूपवातादिजहास्यरोदनादिविशिष्टलक्षणाः स्युरिति बलवद्धतुप्रभावात् । फलोत्पत्ती व्यापारान्तरस्य जनकखाभावेन यथा विक्लित्त्यादिमात्रलक्षणः पाकस्तथागन्तुजो विकारो दुःखमात्रलक्षणो दुःखहेतुदेहमनोधातुवैषम्यलक्षणो वा। प्रातरादिदिनरात्रंशभोजनांशजधातुवैषम्यन्तु विकार एव न खारोग्यं, क्षुत्पिपासानिद्रादीनां स्वाभाविकव्याधिखेनोक्तखात् सुश्रुतादिभिरिति वदन्ति । सर्वत्रैव धातुवैपम्यं त्रिविधान्यतमदुःखञ्चायुगपदुत्पद्यते न तु धातुवैषम्य विना दुःखं दुःखश्च विना धातुवैषम्य वर्तत एवं धातुसाम्यं सुखविशेषश्चायुगपदुत्पद्यते। न तु मुखं विना धातुसाम्यं धातुसाम्यं विना न वत्तेते सुखमिति । धातुवषम्यं दुःखश्च विकारपर्यायः धातुवैषम्यं वा विकारः दुःखं वा विकारः । धातुसाम्यं वा प्रकृतिः सुखं वा प्रकृतिरारोग्यञ्च तदिति । आगन्तुषु च रसादि म्यवस्थिताः, ते त्वजनितव्यपदेश्यविकारं धातुवैषम्यं रात्रिदिनावस्थादिकृतधातुवैषम्यवदल्पत्वेन For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy